________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्र तेन, 'सिणाणेण बा' स्नानेन वा, तत्र स्नान-सुगन्धद्रव्यसमुद्रायनिर्मितवस्तुविशेषमिश्रितजलेन 'साबू' इति लोकप्रसिद्धवस्तुमिश्रितजलेन वा धावनम् , 'चुण्णेहिं वा' चूर्णैर्वा चन्दन चूर्णादिभिः 'वण्णेहिं वा' वर्णकैर्वा सुगन्धाचूर्णरित्यर्थः, एतेषु अन्यतरेण द्रव्येण 'उव्वटेइ' उद्वर्तयति एकवारमुद्वर्तनं करोति 'परिवटेइ वा' परिवर्तयति अनेकवारमुद्वर्तनं करोति, तथा 'उव्वटेंतं वा' उद्वर्तयन्तं वा एकवारमुद्वर्तनं कुर्वन्तं वा 'परिवठेतं वा' परिवर्तयन्तम् अनेकवारमुद्रतनं कुर्वन्तं वा 'साइजइ' स्वदतेऽनुमोदनं करोति स प्रायश्चित्तभागी भवति । यथा खड्गादिशस्त्रस्य मर्दनेन हस्तस्य छेदो भवति तथैवाङ्गादानस्योद्वर्तनादिकरणेन संयमस्य च्छेदो भवतीति ॥ सू० ६॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणडियाए अंगादाणं सीओ. दगवियडेण वा उसिणादगवियडेण वा उच्छोलेज्ज वा पधोवेज्ज वा उच्छो लेंतं वा पधोतं वा साइज्जइ ॥ सू०७॥
छाया-यो भिक्षावृप्रामस्य मैथुनप्रतिक्षया अनादानं शीतोदकविकटेन वा उष्णो. दकविकटेन वा उच्छोलयेद्वा प्रधावेद्वा उच्छोलयन्तं वा प्रधावन्तं वा स्वदते ॥ सू०७॥ . चणी-'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः, 'माउग्गामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया 'अंगादाणं' अङ्गादानम् 'सीओदगवियडेण वा' शीतोदकविकटेन वा, तत्र विकटेन व्यपगतजीवेन अचित्तशीतजलेनेत्यर्थः, 'उसिणोदगवियडेण वा' उष्णोदकविकठेन वा अचित्तेन उष्णजलेनेत्यर्थः 'उच्छोलेज्ज वा' उच्छोलयेद्वा एकवारम् ‘पधोवेज्ज वा' प्रघावेद्वा अनेकवारम् ‘उच्छोलेंतं वा' उच्छोलयन्तं एकवारम् 'पधोएंतं वा' प्रधावन्तं वा अनेकवारं 'साइज्जइ' स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति । अत्र दृष्टान्तो यथा-कस्यचित् पुरुषस्य नेत्ररोगो जातस्ततः स नेत्रं घष्ट्वा धृष्ट्वा जलेन वारं वारं प्रक्षालयति तेन तस्य नेत्रं प्रणष्टम् , एवमेवाङ्गादानस्योच्छो. लन प्रधावनेन संयमः प्रणश्यतीति ॥ सू० ७ ॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुण वडियाए अंगादाणं णिच्छल्लेइ णिच्छल्लेंतं वा साइज्जइ ॥ सू० ८॥
छाया-यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिक्षया अङ्गादानं निश्छल्लयति निश्छल्लयन्तं वा स्वदते ॥ २० ८॥
चूर्णी- 'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृनामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया 'अंगादाणं' अङ्गादानम् ‘णिच्छल्लेइ' निश्छल्लयति छल्लीरहितं करोति, तत्र निश्छल्लनभङ्गादानस्य छल्ल्याः-स्त्वचोऽपनयनं ततश्चाङ्गादानस्य
For Private and Personal Use Only