________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ षष्टोदेशकः ॥ )
(मातृग्राम प्रकरणम्
पञ्चमोद्देशकं व्याख्याय साम्प्रतमवसरप्राप्तं षष्ठोद्देशं व्याख्यातुमाह -तत्र पञ्चमोद्देशकेन
सह षष्ठोदेशकस्य कः सम्बन्धः ? इत्यत्राह भाष्यकार : - 'उस्सीसं' इत्यादि ।
भाष्यम् – उस्सीसं पुण्वकहियं, तेणं रतिं च सुव्बाई साहू | रत्तीए मोहुदओ होइ जया तस्स पच्छित्तं ॥ १ ॥
छाया - उच्छीर्ष पूर्व कथितं तेन रात्रौ च स्वपिति साधुः । रात्रौ मोहोदयो भवति यदा तस्य प्रायश्वितम् ॥ १॥
Acharya Shri Kailassagarsuri Gyanmandir
अवचूरिः - पञ्चमोदेशकस्यान्तिमसूत्रे रजोहरणेन उच्छीर्षकरणस्य निषिद्धत्वेन प्रतिपादितम् एतावता रात्रौ शयनं कथितं दिवसे तु साधोः शयनं न कल्पते । उच्छीर्षेण शयने रात्रौ साधोर्यदा मोहोदयो भवेत् तेन स मैथुनप्रतिज्ञया मातृग्रामं स्त्रियं विज्ञपयेत् तस्यात्र षष्ठोदेशके प्रायश्चित्तं निरुपयिष्यते, अयमेव पञ्चमोद्देशकेन सह पष्ठोदेशकस्य सम्बन्धोऽस्ति ॥ १ ॥
अनेन सम्बन्धेनायातस्यास्य षष्ठोदेशकस्येहमादिसूत्रम् -'जे भिक्खू माउम्गामं' इत्यादि ।
सूत्रम् - जे भिक्खू माउग्गामं मेहुणवडियाए विष्णवे विणवेंतं वा साइज्जइ ॥ सू० १ ॥
छाया -यो भिक्षुर्मातृग्रामं मैथुन प्रतिज्ञया विज्ञपयति विज्ञपयन्तं वा स्वदते ॥ सू० १ ॥ चूर्णी - 'जे भिक्खु' इत्यादि । यः कश्चिद् भिक्षुः - श्रमण श्रमणोः वा 'माउग्गामं' मातृग्रामं - मातुः समानः ग्रामः इन्द्रियसमुदाय इति मातृग्राम इति षष्ठीतत्पुरुषस्तम् । देशविशेषभाषया 'मातृग्राम' शब्देन स्त्री गृह्यते तेन 'स्त्रियम्' इत्यर्थो बोध्यः सर्वाः स्त्रियो भिक्षुणा मातृवदद्रष्टव्या अतोऽत्र मातृग्रामशब्देन निर्देशः कृत इति भावः । 'मेहुणवडियाए ' मैथुनप्रतिज्ञयामैथुनवाञ्छया मिथुनस्य स्त्रीपुरुषस्य कर्म मैथुनम् अब्रह्मचर्यमित्यर्थः, तस्य वाञ्छया स्त्रियम् 'विष्णवे ' विज्ञपयति-मैथुनार्थे स्त्रियं प्रार्थयतीत्यर्थः 'विष्णवेंतं वा साइज' विज्ञपयन्तं मैथुनार्थं स्त्रियं प्रार्थयन्तं स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति, तथा प्रार्थयितुः प्रार्थयितारमनुमोदयितुधाज्ञा भङ्गादिका दोषा अपि भवन्तीति ॥ सू० १ ॥
सूत्रम् -- जे भिक्खू माउम्गामस्स मेहुणवडियाए हत्थकम्मं करेह करेंतं वा साइज्जइ ॥ सू० २ ॥
छाया - यो भिक्षुर्मादप्रामस्य मैथुनप्रतिज्ञया दस्तकर्म करोति कुर्वन्तं वा स्वदते ॥२॥
For Private and Personal Use Only