SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६० निशीथस्ये चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः 'माउग्गामस्स' मातृप्रामस्य स्त्रियाः 'मेहुणवडियाए' मैथुनप्रतिज्ञया मैथुनवाञ्छ्या 'हत्थकम्म' हस्तकर्महस्तेन संपाद्यमानं कर्म क्रिया व्यापारः, तत् करोति स्वयम् तथा 'करेंतं वा साइज्जई' कुर्वन्तं वा स्वदते । यो हि मैथुनेच्छया हस्तकर्म करोति तमनुमोदयति स प्रायश्चित्तमाप्नोति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति । यस्मात् हस्तकर्मकरणेऽनुमोदने चैते दोषा भवन्ति तस्मात्कारणात् स्वयं श्रमणो हस्तकर्म न कुर्यात् न वा हस्तकर्म कारयेत् कुर्वन्तमनुमोदयेत् , चतुर्थमहाव्रतविराधनाया अवश्यम्भावादिति ॥सू० २॥ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादाणं कट्टेण वा किलिंचेण वा अंगुलियाए वा सलागाए वा संचालेइ संचालेंतं वा साइज्जइ ॥ सू० ३॥ छाया- यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिक्षया अङ्गादानं काष्ठेन वा किलिञ्चेन वा शलाकया वा संचालयति संचालयन्तं वा स्वदते ॥ सू० ३ ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृप्रामस्य-स्त्रियाः 'मेहुणवडियाए' मैथुनवाञ्छया 'अंगादाणं' अङ्गादानम् , तत्राङ्गं शरीरं तस्य आदानं प्रसूतिरित्यर्थः, अङ्गादानम्-अङ्गस्योत्पत्तिभवति यस्मात् तत् अङ्गादानम् , यद्यपि दाधातुर्दानार्थ कस्तथापि धातोरनेकार्थत्वादुपसर्गवत्त्वात् आर्षप्रकरणबलाच्चात्रोत्पत्तिरों भवतीति । अङ्गादानं मेद्रं स्त्रीपुरुषयोश्चिह्नविशेषमित्यर्थः, एतादृशं स्त्रीणां स्वस्य वा अङ्गादानम् मोहनीयकमोंदयात् 'कठेण वा' काष्ठेन शिंशपादिदारुदण्डेन वा 'किलिंचेण' वा किलिञ्चेन वा तत्र किलिञ्चो वंशकर्परी, तादृशेन किलिञ्चेन वा 'अंगुलियाए वा' अंगुल्या वा 'सलागाए वा' शलाकया वा लौहादिशलाकया वेत्रशलाकया वा 'संचालेइ वा' संचालयति 'संचालत वा साइज्जइ' संचालयन्तं वा स्वदते । यो हि अङ्गादानम् काष्ठादिना संचालयति तं योऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति ॥ सू० ३ ॥ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादाणं संवाहेन्ज वा पलिमद्देज्ज वा संवाहेंतं वा पलिमहतं वा साइज्जइ ॥सू० ४॥ ____ छाया -यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिक्षया अङ्गादानं संवाहयेद्वा. परिमर्दयेदा संवादयन्तं वा परिमर्वयन्तं वा स्वदते ॥ सू० ४॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy