SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ निशीथरचे त्वसंयमविराधनाऽऽमविराधनादोषा भवन्ति ॥सु० ६१॥ एवं सो चेव रायगमओ भाणियव्वी' एवम् अनेनैव रीत्या स एव योऽस्यैवोद्देशकस्य द्वितीयादिसूत्रगतो राजगमक:-'अच्चीकरेइ' ।मु०६२॥ अच्छीकरेइ ॥सू० ६३॥ अत्यीकरेइ ।।सू० ६४॥ इत्येवंरूपः, सोऽपि सूत्रत्रयात्मकोऽत्रापि भणितव्यः ॥ सू० ६४ ॥ सूत्रम्-एवं देसरक्खयं ४ (६८) एवं सीमारक्खयं४ (७२) एवं रन्नारक्खयं४ (७६) एवं सव्वारक्खयं४॥ सू० ८०॥ छाया-एवं देशरक्षकम्४ (६८) एवं सीमारक्षकम् (७२) एवमरण्यारक्षकम् (७६) एवं सर्वारक्षकम् ४ ॥सू०८०॥ चूर्णी-एषां व्याख्या च पूर्ववद् बोध्या ।।सू० ५-८०॥ सूत्रम्--जे भिक्खू अण्णमण्णस्स पाए आमज्जेज्ज वा पमज्जेज्ज वा, आमज्जंतं वा पमज्जंतं वा साइज्जइ ।। सू० ८१॥ छाया- यो भिक्षुरन्योन्यस्य पादौ आमार्जयेद्वा प्रमार्जयेद्वा आमार्जयन्तं वा प्रमाजयन्तं वा स्वदते ॥ सू० ८१॥ चूर्णी- 'जे भिक्खू' इत्यादि । यो भिक्षुः अन्योन्यस्य परस्परं साधुः साध्व्याः, साध्वी साधोर्वा, इत्येवं परस्परं पादौ आमार्जयेद्वा प्रमार्जयेद् वा आमार्जयन्तं वा प्रमार्जयन्तं वा स्वदते स प्रायश्चित्तभागी भवति ॥ सू० ८१॥ सूत्रम्-एवं तइयउद्देसगमो भाणियब्बो (सू० ८२ से सू० १३३ जाव छाया--एवं तृतीयोद्देशगमो भणितव्यः (सू० ८२ से सू० १३३) यावत् ॥ चूर्णी--एवं' इत्यादि । एवम्- अनेनैवालापकप्रकारेण तृतीयोदेशगमः-तृतीयोद्देशे यो गभस्त्रिपञ्चाशत्सूत्रात्मकः प्रोक्तः सोऽत्राऽपि ज्ञातव्यः । कियत्पर्यन्तम् ! इत्याह-'जाव' इत्यादि, 'जाब' यावत् शीर्षकद्वारिकासूत्रपर्यन्तम् । एकाशीतितमादामार्जनसूत्रादारभ्य त्रयस्त्रिंशदधिकशततम शीर्षद्वारिकासूत्रपर्यन्तं त्रिपञ्चाशत्सूत्रसमुदायोऽत्र वाच्यः । विशेषस्त्वयम्-तत्र तृतीयोदेशे 'अपप्णो पाए' इत्यादि पठितम् , अत्र तु-'अन्नमन्नस्स पाए' इत्यादि पठितव्यम् । तथाहि तदन्तिमसूत्रम् जे भिक्खू गामाणुगामं दूइज्जमाणे अण्णमण्णस्स सीसदुवारियं करेइ करेंत वा साइज्जइ ॥ सू० १३३॥ छाया--यो भिक्षु मानुगाम द्रवन् अन्योन्यस्य शीर्षद्वारिकां करोति कुर्वन्तं या बदते ॥सू० १३३॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy