SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावचूरिः उ. ४ सू० १३४-१३५ उच्चारप्रस्रवणभूमेः प्रतिलेखनाधिकारः १२९ चूर्णी--'जे मिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः 'गामाणुगामदुइज्जमाणे' प्रामानुग्रामं द्रवन् एकस्मात् ग्रामाद् प्रामान्तरं द्वितीय प्रामं प्रति गच्छन् मार्गे गमनसमये आतपादिभ्यो रक्षणबुद्धया 'अण्णमण्णस्स सीसवारियं करेइ' अन्योन्यस्य परस्परस्य साधुसाध्वीति परस्परं शीर्षद्वारिकाम् मस्तकोपरिवस्त्राच्छादनलक्षणां करोति संपादयति तथा 'करें वा साइज्जइ' अन्योन्यस्य शीषद्वारिकां कुर्वन्तं स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति । एतेषां सर्वेषां पादप्रमार्जन-कायव्रणगण्ड-केश-रोम मल-जल्लादिसूत्राणां चूर्णीभाष्याऽवच्यस्तत्तत्सूत्रव्याख्याऽवसरे तृतीयोदेशके एव द्रष्टव्याः ॥ सू० १३३ ॥ अत्राह भाष्यकार:भाष्यम् – पमज्जणाइसुत्ताणं, तइए जो गमो मओ । साहूणीण य साहूणं, अन्नोन्नमेत्थ आहिओ ॥ छाया-प्रमार्जनादिसूत्राणां तृतीये यो गमो मतः। साध्वीनां च साधूना-मन्योन्यमत्राख्यातः ॥ अवचूरिः- 'पमज्जणाई' इत्यादि । प्रमार्जनादिसूत्राणां पादप्रमार्जनादारभ्य शौर्षद्वारिकापर्यन्तं त्रिपञ्चाशत्सूत्राणां यो गमो यादृशस्तृतीये उद्देशके अरख्यातः स एव गमः प्रकारः अत्र चतुर्थे चतुर्थोद्देशके साध्वीनां साधूनां च अन्योन्य शोषद्वारिकाकरणे ज्ञातव्य इति सर्वमत्र तृतीयोद्देशकवदेव व्याख्यातव्यमिति ।।सू० १३३॥ ___ यावत् शब्देन गृहीतानि सूत्राणि व्याख्यातानि सम्प्रति क्रमप्राप्तं सूत्रमाह-'जे भिक्खू' इत्यादि । सूत्रम्--जेक्खू साणुपाए उच्चारपासवणभूमि ण पडिलेहेइ, ण पडिलेहेंतं वा साइज्जइ ॥सू० १३४॥ छाया–यो भिक्षुः सानुपादे उच्चारप्रस्रवणसूमि न प्रतिलेखयति न प्रतिलेखयन्तवा स्वदते ॥सू० १३४॥ ___चूर्णी-'जे भिक्खू' इत्यादि । यः कश्चिद् भिक्षुः श्रमणः 'साणुपाए' सानुपादे, पादः चतुर्थभागरूपः, तम् अनु-अधिकृत्य यद् भवति तद् अनुपादं, तेन सहितं सानुपादम्-दिवसस्य चतुर्थभागावशेष, तस्मिन् सानुपादे चतुर्थभागावशेषायां चरमायां पौरुष्यामित्यर्थः, यो भिक्षुः 'उच्चारपासवणभूमि ण पडिलेहेई' उच्चारप्रस्रवणभूमि न प्रतिलेखयति, अयं भावः-रात्रौ यत्र उच्चारप्रस्रवणं व्युत्स्रक्ष्यते तादृशभूम्या यदि दिवसावसाने चरमपोरुष्यामेव प्रतिलेखनं न करोति तथा 'ण पडिलेहेंतं वा साइज्जई' न प्रतिलेखयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १३॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy