________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ चतुर्थोदशकः ॥
व्याख्यातस्तृतीयोदेशकः, तदनु- अवसरसङ्गत्या चतुर्थोदेशकः प्रारभ्यते - अथाऽस्य चतुर्थोद्देशकीयादिसूत्रस्य तृतीयोदेशकीयान्तिमसूत्रेण सह कः सम्बन्धः ? इति जिज्ञासायामाह भाष्यकारः -- भाष्यम् - परिद्वावे उच्चारं, बसहीओ बहिं गयं । गिण्डिज्जा जइ में राया, एवं तं ण वसं नए ||
छाया - परिष्ठापयितुमुच्चारं, बसतितो बहिर्गतम् । गृहीयाद्यदि मां राजा, पवं तं न वशं नयेत् ।
अवचूरिः – 'परिद्वावेउ० ' इत्यादि । तृतीयोदेशकान्तिमसूत्रे - उच्चारप्रस्रवणयोः परिष्ठापनं कथितम् । तत्र-रात्रौ उच्चारम् - उपलक्षणात् प्रस्रवणादिकं परिष्ठापयितुं यद्युपाश्रयाद् बहिर्गतं मां 'चौरोऽयं विचरती 'ति शङ्कया गृह्णीयात् गृहीतोऽदण्डचोऽपि तत आत्मानं मोचयितुं नृपाश्रयःराज्ञा सह परिचय आवश्यकः, एवम् इति मत्वा तं राजानं न वशं नयेत् राजानं वशीकत्तु न यतेतेति भावः । य एवं कुर्यात् स प्रायश्चित्तभागी भवतीत्यस्मिन्नुदेश के प्रतिपादयिष्यते । अयमेव सम्बन्धः पूर्वापरोदेशकस्त्रयोः । तदनेनसम्बन्धेनायातस्याऽस्योदेशकस्य प्रथमं सूत्रमाह
सूत्रम् — जे भिक्खू रायं अत्तीकरेइ अत्तीकरेंतं वा साइज्जइ ॥सू० १ ॥
छाया - यो भिक्षुः राजानमात्मीकरोति आत्मीकुर्वन्त वा स्वदते ॥ सू० १ || चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'रायं अतीक रेइ' राजानं तत्रत्यमण्डलाधिपतिमात्मीकरोति स्वाधीनं नयति, 'अत्तीकरेंतं वा साइज्जइ' आत्मीकुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्ती भवति । तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति । तत्र - राज्ञ आत्मीकरणं द्विप्रकारकम् – प्रत्यक्षं, परोक्षं च । तत्र - तत् प्रत्यक्षं यत्स्वयमेव करोति १, परोक्षं तु पुनरन्येन अमात्यादिना कारयति । यत्र स्वकीयप्रयत्नेन स्वयमेव गत्वा राज्ञा सह परिचय करणं तत् प्रत्यक्षम् । परोक्षमन्यद्वारा राज्ञा सह सम्बन्धसंपादनमिति । सू० १ ॥
सूत्रम् — जे भिक्खू रायं अच्चीकरेइ अच्चीकरें तं वा साइज्जइ ॥ सू० २ ॥
छाया - यो भिक्षुः राजानमर्चीकरोति अर्चीकुर्वन्त वा स्वदते || सू० २ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'राय' राजानम् 'अच्चीकरेइ' अर्चीकरोति - शौर्यादिगुणवर्णनेन प्रशंसति, तद् अर्चीकरणं द्विविधम् - सदसद्गुणवर्णनभेदात् । पुनरपि एकैकं द्विविधम् -- प्रत्यक्षम् १ परोक्षं च २ । तत्र - प्रत्यक्षं स्वयमेवात्मना गुणवर्णनम् १, परोंक्षं तु परद्वारा गुणवर्णनम् २ । तथा- 'अच्चीकरेंतं वा साइज्जइ' अर्चीकुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति । तस्याज्ञाभङ्गादयो दोषा भवन्ति । राजगुणवर्णनेनाऽनुकूलाः प्रतिकूला वा
१५
For Private and Personal Use Only