________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
निशीथसूत्रे
परिषहा भवन्ति । राज्ञा सहातिपरिचय करणेऽनुकूलप्रतिकूलोपसर्गसंभवेन संयमात्मविराधनादिप्रसङ्गोऽपि, तस्माद्राज्ञोऽतिप्रशंसनं न कर्त्तव्यमिति ॥ सू० २ ॥
सूत्रम् - जे भिक्खू रायं अच्छी करेइ अच्छी करेंतं वा साइज्जइ ॥ सू० ३ ॥
छाया - यो भिक्षुः राजानमच्छीकरोति, अच्छीकुर्वन्त वा स्वदते ॥सू० ३॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'राय' राजानम् 'अच्छी करेइ' अच्छी करोति,अच्छो निर्मलस्तं करोति अच्छीकरोति, औषधयन्त्रमन्त्रादिदानेन रुग्णं नीरोगं करोति । 'अच्छी करें वा साइज्जइ' अच्छीकुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ।। सू० ३॥
सूत्रम् — जे भिक्खू रायं अत्थीकरेइ अत्थी करेंतं वा साइज्जइ ॥ सू० ४ ॥
छाया - यो भिक्षुः राजानमर्थीकरोति अर्थीकुर्वन्त वा स्वदते ॥सू० ४ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'रायं' राजानम् अत्थीकरे ' अर्थीकरोति यावता व्यापारेण राजा श्रमणेऽर्थी प्रयोजनवान् भवेत् तथा करोतीत्यर्थीकरोति । व्यतीताऽनागतवस्तुनो ज्ञाताऽयं श्रमणो मय्यनुकूलो मां मन्त्रादि दास्यतीत्याशावन्तं राजानं स्वसमीपे समागमनाय प्रयोजनवन्तं करोत्यर्थीकरोतेरर्थः । ' अत्थी करें तं वा साइज्जर' अर्थीकुर्वन्तं वाऽन्यं स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति, तस्याज्ञाभङ्गादयो दोषा भवन्ति ॥ सू० ४ ||
1
1
एवं - 'रायारक्खयं' राजारक्षकं राज्ञ आत्मरक्षकम् - 'अत्तीकरेइ ५, अच्चीकरेइ ६, अच्छीeis ७, अत्थीकरेइ ८ इति चत्वारि सूत्राणि ॥सू० ८ || एवमेव 'नगरारक्खयं' नगरारक्षकं नगरपालकं राजपुरुषम्, अत्रापि चत्वारि सूत्राणि ॥ सू० १२ ॥ एवमेव 'णिगमारक्खयं' निगमारक्षकं, तत्र निगमः - व्यापारप्रधानस्थानं, तस्याधिष्ठातारम् । अत्रापि चत्वारि सूत्राणि ॥ सू० १६ ॥ एवं 'सन्चारक्खयं' सर्वारक्षकम् सर्वान् राजारक्षकादारभ्य निगमारक्षकपर्यन्तान् सर्वान्, आ पामराः प्रजा वा आ-समन्ताद् रक्षति यः स सर्वारक्षकः प्रधानोऽधिकारी तम् । अत्रापि चत्वारि सूत्राणि ||२०|| 'अत्तीकरेइ १, अच्चीकरेइ २, अच्छीकरेs ३. अत्थीकरेइ ४' इत्येतद्विषयाणि प्रत्येकं चत्वारि चत्वारि सूत्राणि राजारक्षकादारभ्य सर्वारक्षकपर्यन्तानां विषये व्याख्येयानि राजसूत्रादारभ्य सर्वारक्षकसूत्रपर्यन्तानि पञ्चापि सूत्राणि आत्मीकरणादिकमधिकृत्यै कगमानि सन्तीति ॥ सू० ५-२० ॥
भाष्यम् – अत्ती करेइ य णिवार कयाइ अच्ची, अच्छीकरेड़ जइ वाse करेज्ज अत्थी सन्वत्थ एत्थ दुहओ उवसग्गदोसा, तम्हा जई नहि करेज्ज वयंति सुत्ते ॥
छाया - आत्मीकरोति च नृपादि कदाचिदर्ची अच्छीकरोति यदिवाऽथ कुर्यादर्थी । सर्वत्राऽत्र द्विघात उपसर्गदोषाः तस्माद्यतिनंहि कुर्याद्वदन्ति सूत्रे ॥
For Private and Personal Use Only