SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ce निशीथस्ने पातः प्रक्षेपः, तस्य प्रतिज्ञया मध्यस्थभावेन तद्ग्रहणबुद्धया भिक्षाग्रहणार्थमित्यर्थः 'अणुप्पविढे समाणे' अनुप्रविष्टः सन् भिक्षाग्रहणाय गाथापतिगृहं गतः सन् 'परं तिघरंतराओ' परमधिकं त्रिगृहान्तरात् , तत्र-त्रयाणां गृहाणां समाहारस्त्रिगृहम् त्रिगृहमेवाऽन्तरं व्यवधानमिति त्रिगृ. हान्तरम् गृहत्रयात्परत इत्यर्थः, प्रथमगृहादरभ्य तृतीयगृहान्तराल एव, न तु-चतुर्थादिगृहे भिक्षानियमः । ततः परं यदि चतुर्थादिगृहात् 'असणं वा' अशनम् 'पाणं वा' पानम् 'खाइमं वा' खाद्यम् 'साइमं वा' स्वाद्यम् 'अभिहडं' अभिहतम्-आभिमुख्येनाहृतम् आनीतम् , तत् 'आइटु दिज्जमाणं' आहृत्य गृहीत्वा दीयमानमशनादिकं चतुर्विध पडिग्गाहेइ' प्रतिगृह्णाति । 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति । सू० १५ ॥ सूत्रम्-जे भिक्खू अप्पणो पाए आमज्जेज्ज वा पमज्जेज्ज वा आमज्जंतं वा पमज्जंतं वा साइज्जइ ॥ सू० १६॥ ... छाया-यो भिक्षुः मात्मनः पादौ मार्जयेद्वा प्रमार्जयेar आमार्जयन्तं व प्रमार्जयन्तं वा स्वदते ।। सू० १६॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो पाए' आत्मनः पादौस्वचरणो 'आमज्जेज्ज वा' आमार्जयेद्वा-मलनिवारणार्थ शोभादिसंपादनार्थ वा येन केनाऽपि द्रव्येण सकृत्प्रमार्जनं कुर्यात् 'षमज्जेज वा' प्रमार्जयेद्वा पुनः पुनः प्रमार्जनं कुर्यात् । तथा'आमज्जंतं वा पमज्जंतं वा' आमार्जयन्तं वा प्रमार्जयन्तं वा 'साइज्जई' स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० १६ ॥ अत्राह भाष्यकार:भाष्यम्-पमज्जणं च दुविहं, आइण्णाइषभेयओ । अणाइण्णं सेवमाणे, आणाभंगाइ पावइ ॥ छाया-प्रमार्जनं च द्विविध-माचीर्णादिप्रमेवतः । अनावीणं सेवमान आशामकादिकं प्राप्नोति ॥ · अवचूरिः-'पमज्जणं'-इत्यादि । सूत्रे-चरणप्रमार्जने साधूनां दोषमुक्तवान् , तत्रप्रमार्जनं द्विविधं द्विप्रकारकं भवति आचीर्णादिप्रभेदतः-आचीर्णाऽनाचीर्णभेदात् । तत्रसाधुभिराचर्यमाणं चरणप्रमार्जनम्-आचीर्णप्रमार्जनम् , एतद्विपरीतमनाचीण भवति । तत्राऽऽचीर्ण प्रमार्जनमनेकप्रकारकं भवति तद्यथा-संसक्तो चरणौ प्रमार्जयितव्यौ, मार्गे वा चलतः साधोर्यदि धूल्यादिभिश्चरणौ धूसरितौ भवेतां तदा प्रमार्जनीयौ । अस्थण्डिलात् स्थण्डिले गच्छतः पङ्किलभूमौ वा गच्छतो यदि पङ्केन चरणौ लिसौ तदा प्रमार्जनीयौ । For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy