________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्षिभाज्यावचूरिः उ० ३ सू०१४-१५ संखडितचतुर्थादिगृहान्तरतश्च भिक्षाग्रहणानि० ८० भाष्यम्-गाहावइकुलं भिक्खू , पश्चक्खाओ गओ जह।
पुणो पवेसमेत्तेणं, आणाभंगाइयं भजे ॥ छाया-गाथापतिकलं भिक्षुः प्रत्याख्यातो गतो यदि ।
पुनः प्रवेशमात्रेण-आशाभङ्गादिकं भजेत् ॥ अवचूरिः-'गाहावइकुलं' इत्यादि । कश्चिद्भिक्षुः भिक्षाप्राप्त्यर्थ गृहपतिकुलं गतः, तत्र प्रविशन्नेव गृहपतिना प्रत्याख्यातः "नास्ति मद्गृहे भिक्षावकाशः। एवंप्रकारेण निराकृतो. ऽपि यदि पुनर्गृहपतेराज्ञां विना तस्मिन् गृहे प्रविशति । ततः प्रवेशमात्रेणाज्ञाभङ्गादिकं दोष भजते तस्मात्तत्कुलं न प्रविशेदननुज्ञात इति ।। सू० १३ ॥
सूत्रम्-जे भिक्खू संखडिपलोयणाए असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ।। सू० १४॥
छाया-यो भिक्षुः संखडिप्रलोकनया अशनं वा पानं वा स्वाचं वा स्वाधवा प्रतिगृह्णाति, प्रतिगृहन्तं वा स्वदते ॥ सू० १४॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'संखडिपलोयणाए' संखडिप्रलोकनया, संखडीति देशी शब्दः तदर्थस्तु यत्र स्थानेऽनेकजनानां भोजनं निष्पावते, तादृशस्थानं संखडी । यत्राऽनेकपृथिव्यादिषड्जीवनिकायजीवानां प्राणाः खण्डिताः बिराषिता भवन्ति सा संखडीति व्युत्पत्तेः-"जिमनवार" इति भाषायाम् तत्र-संखडीस्थले गत्वा-'असणं का' अशनं वा, पाणं वा' पानं वा, 'खाइमं वा' खाद्यं वा, 'साइमं वा' स्वाद्य वा, 'पडिग्गाहेइ प्रतिगृह्णाति 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ।। सू० १४॥
सूत्रम्-जे भिक्खू गाहावइकुलं पिंडवायपडियाए अणुप्पविट्ठे समाणे परं तिघरंतराओ असणं वा पाणं वा खाइमं वा साइमं वा अभिहडं आहटु दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू०१५॥
- छाया-यो भिक्षुः गाथापतिकुल पिंडपातप्रतिक्षया अनुप्रविष्टः सन् परं त्रिगृहान्तरात् अशनं वा पान वा खाद्य वा स्वाद्य वा अभिहृतमाहृत्य दीयमानं प्रतिगृहाति प्रतिगृहन्तं वा स्वदते ॥ सू० १५ ॥
चूर्णी-'जे भिक्खू' इत्यादि। 'जे भिक्खू' यो भिक्षुः ‘गाहावइकुल' गाथापतिकुलम् 'पिंडवायपडियाए' पिण्डपातप्रतिज्ञया तत्र-पिण्डोऽशनादिकं, तस्य गृहिणा दीयमानाहारस्य पाने
For Private and Personal Use Only