SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णि भाग्यावचूरिः उ०३ सू० १६ - १९ स्वपादयोः संवाहन - प्रक्षणो-ल्लोलनादिनिषेधः ८९ भिक्षाकरणेन प्रतिनिवृत्तः, यद्वा-संज्ञाभूमित आगतः, विहारभूमित आगतः, स्वाध्यायं कृत्वा समागतः, यद्वा- ग्रामान्तराद गणकार्यं कृत्वा प्रत्यागतः । I एतेषु कार्येषु साधुचरणौ प्रमार्जयति । एतत् प्रमार्जनमाचीर्णम्, एतद्विपरीतमनाचीर्ण प्रमार्जनमिति कथ्यते । तत्राऽनाचीर्ण चरण प्रमार्जनं कुर्वन् श्रमणः आज्ञाभङ्गादीन् दोषान् लभते । तत्र संयमविराधनेत्थम् - रजोहरणेन येन केनचिदन्येनापि साधनेन चरणप्रमार्जने वायवः संघट्टिता भवन्तीति वायुकायिकजीवानां विराधनं भवति । तथा - अन्येऽपि वायुकायिकेषु समुड्डीयमाना मशकादयो जीवा बादराथ पतङ्गादयः संघनेन विराधिता भवेयुः, बकुशदोषः, ब्रह्मचर्या गुप्तिश्च यस्मात् पादप्रमार्जने संयमविघातः अनेकविधप्राणानां विराधनात् तस्मात्कारणात् साधुभिरनाचीर्णं चरणप्रमार्जनं न कथमपि कर्त्तव्यम् ॥ सू० १६ ॥ सूत्रम् — जे भिक्खू अप्पणो पाए संवाहेज्ज वा पलिमद्देज्ज वा संवार्हेत वा पलिमद्दतं वा साइज्जइ ॥ सू० १७ ॥ छाया - यो भिक्षुः आत्मनः पादौ संवाहयेद्वा परिमदयेद्वा संवाहयन्तं वा परिमर्दयन्तं वा स्वदते ॥ सू० १७ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो पाए' आत्मनः स्वस्य पादौ -: - चरणा 'संवाहेज्ज वा' संवाहयेत् - एकवारं चरणौ संवाहयेत - निष्पीडयेत् 'पगचंपी' ति भाषाप्रसिद्धं कारयेत् 'पलिमद्देज्ज वा' परिमर्दयेद्वा वारं वारं चरणयोः संवानं कारयेत् | 'संवा वा पळिमदेतं वा' संवाहयन्तं परिमर्दयन्तं वा तत्र संवाहनं चरणादिनिष्पीडनम्, तत् संवाहनं चतुर्विधम्- अस्थिसुखकरम् १, मांससुखकरम् २, रोमसुखकरम् ३, त्वक्सुखकरम् ४ । एवं संवाहयन्तं वा परिमर्दयन्तं वाऽन्यं 'साइज्जइ' स्वदते - यः श्रमणः स्वयं चरणयोः संवाहनं परिमर्दनं वा कारयति कारयन्तं वा श्रमणान्तरं अनुमोदते स प्रायश्चित्तभाग् भवति । तथा-आज्ञाभङ्गानवस्थामिथ्यात्व संयमविराधनात्मविराधनादिदोषान् लभते तस्माच्चरणयोः संवाहनं - परिमर्दनं वा न स्वयं कारयेत् न वा कारयन्तमन्यं श्रमणमनुमोदयेत् ॥ सू० १७ ॥ सूत्रम् -- जे भिक्खू अप्पणो पाए तेल्लेण वा घएण वा णवणीएण वा बसाए वा मक्खेज्ज वा भिलिंगेज्ज वा मक्र्खेतं वा मिलितं वा साइज्जइ ॥ सू० १८ ॥ १२ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy