________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
नि:शेषसिद्धान्तविचार-पर्याय
रावधिना । 'पासस्स णं अरहओ पुरिसादाणियस्स कालगयस्स दुवालस वाससयाई वीइकंताई, तेरसमस्स य वाससयस्स अयं तेयालीसइमे संवच्छरे गच्छई' इत्यस्यार्थी यथा-महावीर कालमानं प्रोक्तं ९९३ पतन्मध्ये जिनान्तरं पार्श्वनाथसत्कं प्रक्षिप्यते इदं २५० ततो यथोक्तं मानं भवति १२४३ अङ्कस्वरूपमिति भावार्थः । अरहओ णं अरिष्टनेमिस्स कालगयस्स चउरासीई वाससहस्साई वीइकंताई, पंचासीइमयस्स वाससहस्सस्स नव वाससयाई वीइकंताई, दसमस्म य वाससयस्स अयं तेणउइमे संवच्छरे गच्छई' इत्यस्यार्थी यथापार्श्वनाथमान १२४३ अस्य मध्ये नेमिपार्वान्तरं क्षिप्यते इदं ८३७.० ततो ययोक्तं मानं भवति ८५९९३ अङ्कस्वरूपत इत्यर्थः । बायालीसवाससहस्सेहिं ऊणिया गच्छद्' इत्यत्र ऋषभकालात् प्रभृति चतुर्थीप्रवृत्तपर्युषणादिनं यावत् कालमानमित्यर्थः । कोडियकाकंदवम्बावञ्चसगोत्ताणं' ति कोडियकाकन्दयोः वग्यावञ्चं गोत्तं । 'अज्जत्ताप समणा निग्गंथा' इति । साम्प्रतं ये विहरन्तीत्यर्थः। 'अंतरा वि से कप्पड़ पज्जीसवित्तए' पञ्चभिः पञ्चभि: दिनैः कृत्वा इत्यर्थः । 'अत्थेगइयाणं एवं वुत्तपुव्वं भवइ दाए भंते' इति सूत्रस्य व्याख्या-केनापि भिक्षां गच्छता एवं पूर्वम् उक्तं स्यात् यथा-अन्यस्य वास्यामि भक्तं न तु स्वयं प्रतिग्रहीष्यामि इत्येको भङ्गक इत्यादिका चतुर्भङ्गी शेया । चूर्ण तु-'अत्थेगझ्या आयरिया दाए भंते ! दावे गिलाणस्स मा अप्पणी पडिग्गाहे चाउम्मासगाइसु' इत्यस्यार्थी यथा-सन्ति केचिदाचार्या: ततः शिष्यः प्राह-तान् प्रति-'दाए भंते' इति । अस्यार्थस्तु ग्लानस्य दास्यामि न स्वात्मना ग्रहीष्यामि चतुर्मासकादिषु इति चतुर्भङ्गी ज्ञेया इत्यर्थः । 'तुम पित्थ भोक्खसि ओयणं दवं पाहिसि' इति । त्वयाऽपि भोक्तव्य आंदनः जलं च पातव्यं ततो बहुतरमपि गृह्णा
For Private And Personal Use Only