________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
दशाश्रुतास्कन्ध-पर्यायाः
क्षालनं करोतीत्यर्थः । अष्टमदशायां-'जइ अस्थपयवियारो' गाहा कंठा 'कुत्तनिहिडा निसीहे' इति । कुत्र निर्दिष्टा गाथा ? निशीथे इत्यर्थ: । 'चयणाईणं छह वत्थूण' च्यवनादीनि पञ्च षष्ठस्तु गर्भापहारः । 'पणियभूमि वजभूमि' इति । पणियभूमि इत्यस्य पर्यायो बजभूमिरिति । भूमिशब्देन काल उच्यते । पुरिसंतरकालो युगतरकालश्चेत्येकाचा । 'पणपन्नं पावा पणपन्नं कल्लाणा' इति । पञ्चपञ्चाशदध्ययनानि पापकर्मप्रतिपादकानि पञ्चपञ्चाशश्च कल्याणप्रतिपादकाति अध्ययनानीत्यर्थः । तत्रैकत्र मरुदेवीवक्तव्यताइत्यादि ज्ञेयं । 'वेसमणकुंडधारिणो तिरियजंभगा देवा' इति कुण्डधारिण इति तेषां नाम ज्ञेयम् । पावाए मज्झिमाए-एकार्थे । ततः हस्तिपालकस्य राज्ञः सत्कायां रज्जुकसभायां लेखकसभायामित्यर्थः । चंद्रसंवच्छग्मधिकृत्यापदिश्यते 'जेण जुगाई सो' इति । येन कारणेन स संवत्सरः युगस्यादो वर्तते । 'वासाणं सवीसइराए किं निमित्तं ? पाएण सयऽहाए कडियाई पासहिंतो कंबियाणि' इति । अर्थस्तु वर्षाकालस्य सत्के सवीसइरापसु दिनेषु गतेषु किंनिमित्तं पर्युषणा क्रियते ? यत: प्रायेण स्वार्थ कृतानि गृहाणीत्यर्थः । 'जहन्नलंद उद उल्लं-उदकाई सत् यावता शुष्यति तावान् काल इत्यर्थः । 'भगक्या जमनरखतं संकंते' इति । भगवतो जन्मनक्षत्रं सक्रान्त: तत्रोदय इत्यर्थः । अचलमाणा-अचलंती । अणुत्तरोववाइयसंपया होत्था' -ये अनुत्तरविमानेषु उत्पत्स्यन्ते इत्यर्थः । 'समणस्स णं भगवओ महावीरस्स नव वाससयाई वीइकताई, दसमस्स य वाससयस्स अयं तेणउइमे संवच्छरे गच्छद' इत्यस्यार्थो यथा-यदा किल पर्युषणा चतुर्थ्यां जाता, ततः पूर्व कालमानमिदमिति वदन्ति वृद्धाः, तवं पुनः केवलिनो विदन्ति इति भावार्थ:। आहोहिएण-अभ्यन्त
For Private And Personal Use Only