________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
सूत्रकृताङ्गस्य विचारा: अस्थार्थ:-ये केचन शीतलविहारिण: धर्मेण मुधिकया लब्धम् उद्देशिकक्रीतकृतादि-दोषरहितमित्यर्थः । तदेवंभूतमप्याहारजातं विनिधाय-व्यवस्थाप्य सन्निधिं कृत्वा भुञ्जते । तथा ये विकटेनप्रामुकोदकेनापि सङ्कोच्याङ्गानि प्रासुक एव प्रदेशे देशसर्वस्नानं कुर्वन्ति । तथा यो वस्त्रं धाति-प्रक्षालयति । तथा लूषयति-शोभार्थ दीर्घ सत् पाटयित्वा इस्वं कराति हस्व वा सन्धाय दीर्घ करोति इत्येवं लूषयति स निर्ग्रन्थमावस्य-संयमानुष्ठानस्य दूरे वर्तते, न तस्य संयमो भवतीत्यर्थ: । एवं तीर्थकर-गणधरादय आहुरिति सूत्रकृताङ्गे कुशीलाध्ययने उक्तम् । कम्मं परिण्णाय दगंसि धीरे वियडेण जीविजय आइमुक्खं । से बीयकंदाइ अभंजमाणे विरए सिणाणाइसु इत्थियासु ॥ २२ ॥ धीर उदकसमारम्भे सति कर्मबन्धी भवतीत्येवं परिज्ञाय किं कुर्यात् ? इत्याह-विकटेन-प्रासुकोदकेन सौवीरादिना जीव्यात्, आदि:- संसारः तस्मात् मोक्ष आदिभोक्षः संसारविमुक्तिं यावदिति सूत्रकृताङ्गकुशीलाध्ययने उक्तम् ।
आयरियपरंपरपण आगयं जो उ छेयबुद्धोए । कोवेइ हेयवाई जमालिनासं स णासिहिति ॥ १५ ॥ इति सूत्रकृताङ्गयाथातथ्याध्ययने नियुक्तायुक्तम् ।।
चाउद्दसमुद्दिट्टपुण्णमासिणीसु पडिपुण्णं पोसह सम्मं अणुपालेमाणे' इति । 'आलोइयपतिकता समाहिपत्ता' इति आहारपरिज्ञाध्ययने सूत्रकृदङ्गस्य श्रावकं प्रत्युक्तं, साधु प्रति तु चाउजामाओ धम्माओ पंचमहत्वइयं सपडिक्कमणथम्म उवसंपजित्ताणं विहरइ उदकसाधुरितिशेषः । ततो यादृशं प्रतिक्रमणं साधो: तादृशं श्रावकस्यानुमीयते। एतदपि सूत्रकृति । 'चाउद्दसट्टमुदिट्टपुण्णमासिणीसु' इत्यस्यार्थो यथा-चतुर्दश्यष्टम्यादिषु तिथिषु उद्दिष्टासु-महाकल्याणसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिषु इत्यर्थः । एवम्भूतेषु धर्मदिवसेषु
For Private And Personal Use Only