________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir
द्वितीयः खण्डः
"
प्रश्नव्याकरणपर्याया यथा सूत्रं व्यवस्थाप्यमता विमृश्य व्याख्यानकल्पादित एव नैव' इति व्यारव्यानकल्पात् प्रज्ञाशास्त्रपुस्तकादिलक्षणात् इतः पूर्वोक्तात् नैव सूत्रं व्यवस्थाप्यमित्यर्थः । 'संसारमोचका:' इति । वृद्धोऽयं अन्धोऽयं इति भणित्वा ये मारयन्ति ते संसारमोचका: । वणे श्वयथुरायासात् ' श्वयथु:शोफः । इति प्रश्नव्याकरणपर्यायाः ॥ जीवाभिगमस्य यथा - 'सत: सम्भूतभावस्य चारु रूपं फलं च यद्' इति, सतः - आप्तात् सम्भूतभावस्य - शास्त्रस्येत्यर्थः, चारु रूपं फलम् - अभिधेयमित्यर्थः । 'वचनाजिनसंसिद्धेः तन्नैरर्थक्यमन्यथा' । तन्नैरर्थक्यं वचननैरर्थक्यम् । 'सर्वशादपि हि श्रोतुः तदन्यस्यार्थदेशने' इति । श्रोतु:, किंविशिष्टस्य ? तदन्यस्याऽसर्वज्ञस्येत्यर्थ: । 'तदाधिपत्यादाभासः सत्त्वार्थेषूपजायते' इति, सत्त्वार्थेषु - पुरुषार्थेषु इत्यर्थः । जीवाभिगमपर्यायाः समाप्ताः ॥
"
ܝ.
૧૧
I
प्रज्ञापनाऽष्टादशपदे- 'देशतोऽपि स्वावगाहनातत प्रदेशोऽयमनाहारकः' अयं केवली स्वावगाहनया कृत्वा विस्तृतप्रदेशोऽनाहारक: स्यादित्यर्थ: । विशतितमपदे- 'मुहतूरए चैव'ति । मुखवाद्यानि डिम्भानामिव । गोविसो - गोवृषः । 'घयणुव्व छले' इति । घयणोभाण्ड उच्यते । घाटि - भैक्ष्योपजीवि (नः) त्रिदण्डिन: धाडीवाहा भण्यन्ते । त्रयोविंशतितमपदे- 'स सर्वशत्वाच्च भवति' इति । स व्याबाधाभावः । व्याबाधाभावो नुः स्वस्थस्य ज्ञस्य ननु स सुखं' इति । व्याख्या यथा - सुखं किं भण्यते ? स व्याबाधाऽभावः कस्य ? नु:पुरुषस्य किविशिष्टस्य ? स्वस्थस्य पुनः ज्ञस्य अहा ? | शरीरसम्बन्धात् 'अगुरुलघु आत्मानं नमयति शरीरं न गुरु नापि लध्विति' शरीरं कर्तृ आत्मानं कर्मतापन्न नमयतीति तात्पर्यम् । 'खद्योतबुध्नादिषु इति । बुध्नं- गुदप्रदेशादि । 'बेइंद्रियजाइना मेणं पुच्छा । गो० १
For Private And Personal Use Only
2