SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir द्वितीय: खण्ड: समच्छेदः प्रज्ञप्त' इति - समांशता तु उक्तव्यतिरिक्तभागाभावात् समांशता न तु भागसमतयैव । 'सत्तट्ठि खंडिए अहोरते भागाओ एकवीसं'ति - सप्तषष्ट्या खण्डोरात्रे एकविंशतिर्भागा भवन्तीत्यर्थः । ' एतदेव द्विगुणं षट्पञ्चाशतो नक्षत्राणा' मितिद्विगुणत्वं च नक्षत्रयोर्द्वयत्वात् । 'न बाधते' इति अबाधा-कर्मणोऽनुदय इत्यर्थः । तदेष चतुरशीत्या लक्षैर्गुणितं पूर्वमुच्यते ' इति पूर्वमिति सङ्ख्याविशेषः । ' तच्च स्थानम्' इत्यत्र पदछेदः कार्यः । ' स्थानान्तरमित्येवम्' इति स्वस्थान-स्थानं इति प्राग् व्याख्यातं, स्थानान्तरं तु एवं वक्ष्यमाणन्यायेन, तथाहि पूर्व्वं स्वस्थानं तदेव चतुरशीत्या गुणितम् अनन्तरस्थानं त्रुटिताङ्गं भवतीति । 'चउदस नामाओ अंगसंजुता' इति 'पुव्वनुडियाऽडड' इत्यादीनि चतुर्दश नामानि अङ्गसंयुक्तानि कार्याणि । ततोऽष्टाविंशतिः सङ्ख्याविशेषाः स्थानलक्षणा लभ्यन्ते । शीर्षप्रहेलिकायां चतुर्नवत्यधिकं स्थानशतम् अङ्कस्थानशतं स्यादित्यर्थ: । 'छेदेन अष्टादशलक्षणेन ' इति । छेदेनअंशेन । 'पगूणपन्नासइमे मंडलगए अड्डाणउइ एसट्टिभाए मुहुत्तस्स दिवसखेत्तस्स निवुड्डेत्ता ' इति । प्रकोनपञ्चाशत्तमे मण्डले तिष्ठन् विः यैरकपटिभ मुहूर्त्तो भवति तेषां भागानां अष्टानवतिं भागान् दिनक्षेत्रस्य हानिं नयतीत्यर्थः । धणूवि अंगुलानि ९६ । मालिया - दण्डपकरणविशेषः जुगं-यूपं अक्षः शकटसम्बन्धी, मुशलम् एतानि सर्वाणि हस्तचतुष्टयम् इति तात्पर्यम् । 'द्रव्यादिभेदात् वा विंशतिर्वा ' इति द्रव्यक्षेत्रकालभावाः पञ्चसु इन्द्रियेषु चत्वारः प्रत्येकं योज्यन्ते, ततो विंशतिरिन्द्रियाणीत्यर्थः । एत्थ य समलक्खणाइया जम्हा | नवनाययसंबद्धा अक्खाइयमाइया तेणं || तो सोहिज्जति फुर्ड' इत्यस्य गाथाशकलस्य व्याख्या यथा-समलक्षणाः- समस्वरूपाः नवज्ञातसम्बद्धा अख्यायिकाद्याः तेन कारणेन शोध्यन्ते ततो 'वेगलानां' उद्धरितानां 'पुनरुक्त्तवर्जितानां अर्द्धचतुर्था एव > For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy