________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
द्वितीयः खण्डः मारितोऽयं वृद्धादिः सुखी भविष्यतीति वुद्ध्या व्यापादयन्ति तेषां म्लेच्छादीनाम् । आततायिनशब्देन गोधातकादयः षद उच्यन्ते । 'अकल्ककुहकाजीवनं' कलकः-पापं कुहक:-मायागोलकादिकः ताभ्याम् आजीवनं यत्र नास्तीत्यर्थः । 'व्रतेश्वरयागविधानेने 'ति । व्रतार्थम् ईश्वरस्य यागविधानं तेन । अध्ययने ७-'गतं न गम्यते तावदगतं नैव गम्यते' इत्यादिश्लोकार्थस्तु यथा-अतीतगमनक्रियं वस्तु न वर्तमानक्रियायुक्तं भवति, अगतम् अनागतक्रियं न वर्तमानक्रियं भवतीत्यर्थः । इति सूत्राकृताङ्गपर्यायाः॥ स्थानपर्याया यथा-वैशा-जाड्यम् । आश्रवणक्लेदने लालानिर्गमार्द्रताकृत् अम्ल इत्यर्थः। रिषभसेनःपोण्डरीकः । ठाणे २-खण्ड: सण्डः कलहोडकः । उक्षा-सम्बन्धनम् । अत्थवावणं-अर्थव्यापनम् । 'गणहरथेराइकयं' इत्यादिगाथायां यथासङख्यं, यथा गणधरकृतं धृवं थेरकृतं चलं २, तथा आदेशात् कृतं ध्रुव १ मुक्तव्याकरणकृतं चलमिति । तथा ध्रुवम्-अङ्गप्रविष्टं १ चलम्-अनङ्गप्रविष्टम् २ ।
'कर्मकर्तृप्रयोगोऽयं' कर्मवभावादित्यर्थः । ततो 'भवति सम्पद्यते' इत्यर्थः । 'असज्ञिनश्च नारकादिषु व्यन्तरावसाने त्पद्यन्ते, न ज्योतिष्कवैमानिकेष्विति तेषामसज्ञित्वाभावादिहाग्रहणं' इत्यस्य वाक्यस्य तात्पर्यार्थो यथा-असज्ञिन: ज्योतिष्कवैमानिकेषु नोत्पद्यन्ते इति तेषां ज्योतिष्कवैमानिकानाम् असज्ञित्वाभावादग्रहणं । त्रिसोपानप्रतिरूपका:-यत्र दिक्त्रये सोपानानि प्रतिद्वारं स्युः । पूषा चेतीश्वरा भाना' भानामिति नक्षत्राणां । गेंदुकः-दण्डक: । 'दृष्टिगोचरातिसूक्ष्मद्रव्यासङ्ख्येयभागमात्रसूक्ष्मपनके' त्यादेरर्थो यथा-यत् दृष्टिगोचरम् अतिसूक्ष्मद्रव्यं तस्याऽसङ्ख्येयभागमात्रे पनकजीवो य: तच्छरीरासङ्ख्यातगुणखण्डीकृतवालाग्रभृत इत्यर्थः । एत्तो अद्धाइ
For Private And Personal Use Only