________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निःशेषसिद्धान्तविचार-पर्याये 'निम्माणेइ परो चिय अप्पाणउ न वेयणं सरीराणं । अप्पाणुच्चिय हिययस्स न उण दुक्खं परो देइ ' ॥१॥
अस्या अर्थो यथा-निर्मापयति वेदनां परः सरीराणं-शरीरस्यैव आत्मनस्तु न वेदनां परः क-तुं समर्थ: । हृदयस्य तु 'अप्पाणुच्चिय' आत्मैव दु:खं ददाति न तु पर इति गाथार्थ: । सपुटं-विषमोन्नतम् । 'आँ' इति एवंपर्यायः । अवरुग्णवाहनानां-भग्नवाहनानाम् । मीमांसाअविचारणा । उ०. ४-कृत्स्नं वाङ्मयमित' इति । इतो-मत्सकाशात् निर्गतमिति जल्पति । 'क्रीउनकमीश्वराणां' गर्वाध्मातजल्पक: क्रीडनकं जायते । 'गन्तुं तत्थऽचय तेो' अशक्नुवन् । उ०. ५क्षीबा इव-मत्ता इव । अष्टमाध्ययने उ०१ ऐतिह्यम्-अनादिवार्ता । ' अथवा अलोकोऽस्ति न च लेोको भवति, लोकोऽपि नामास्ति, न च लोका लोकाभाव इत्येवं स्यादनिष्टं चैाद'त्यत्रार्थो यथा-अथवेति पूर्वोक्ताद्विपर्य येणायोज्यते-पूर्व हि लोकोऽस्ती'त्युक्तं अत्र 'त्वलोकाऽस्ती' त्युच्यते । ततश्चात्रापि अस्तिना सहसामानाधिकरण्यात् यदस्ति तत्सर्वमलोक: स्यात् 'नच लेोका भवतीति कश्चनापि न प्राप्नोतीत्यर्थः। अथवा अलोकप्रतिपक्षभूतो 'लोकोऽपि नामास्ति' परं न स लेोकः प्राप्नोति किं तर्हि लोकाभाव अलोक एव स्यादित्यर्थ: । अथवा 'न चेति पाश्चात्येन पदेन सह सम्बध्यते, तद्यथा-लोकोऽपि नामास्ति परं न भवतीति तर्हि किं स्यादित्याह-'लोका लेोकाभाव' इति । लोकः सत्रलोक एव स्यादित्यर्थ: तस्याप्यस्तित्वेन व्याप्तत्वादित्यर्थ:। किश्चास्य व्याप्यस्य व्यापकत्वे सति लोकस्येत्यर्थः । द्विवचनबहुवचने अप्यायोज्ये वक्ष्यमाणसूत्रजाते इति शेषः । अध्ययने ९- किमिय.कस्यायं किमिय: । उपपति:-पारदारिक : ।
For Private And Personal Use Only