SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरबोधिनी टीका कृणिकको श्रेणिकका परिचय १५३ ततः खलु श्रेणिको राजा कुणिकं कुमारं परशुहस्तगतमेजमानं पश्यति, दृष्ट्वा एवमवादी-एष खलु कूणिकः कुमारः अमार्थितमार्थितो यावत् श्रीह्रीपरिवर्जितः . परशुहस्तगत इह हव्यमागच्छति, तन ज्ञायते खलु मां केनापि कुमारेण (कुत्सितमारेण ) मारयिष्यतीति कला भीतो यावत् संजातभयस्तालपुटकं विषमास्ये प्रक्षिपति । ___ततः खलु स श्रेणिको राजा तालपुटकविषे आस्ये प्रक्षिप्ते सति मुहूर्त्तान्तरेण परिणम्यमाने निष्पाणो निश्चेष्टो जीवविभत्यक्तोऽवतीर्णः। ततः खलु स कुणिकः कुमारो यत्रैव चारकशाला तत्रैवोपागतः, उपागत्य श्रेणिकं राजानं निष्पाणं निश्चेष्टं जीवविप्रत्यक्तमवतीर्ण पश्यति, दृष्ट्वा महता पितृशोकेन आक्रान्तः सन् परशुनिकृत्त इव चम्पकवरपादपः 'धस' इति धरणीतले सर्वाङ्गः संनिपतितः।। ततः खलु स कूणिकः कुमारो मुहूर्तान्तरेण आखस्थः सन् रुदन् क्रन्दन् शोचन् विलपन् एवमवादी-अहो ! खलु मया अधन्येन अपुण्येन अकृतपुण्येन दुष्ठु कृतं श्रेणिकं राजानं प्रियं दैवतमत्यन्तस्नेहानुरागरक्तं निगडबन्धनं कुर्वता, मम मूलकं चैव खलु श्रेणिको राजा कालगतः, इति कुखा ईश्वर-तलवर-यावत्-सन्धिपालैः सार्द्ध संपरिवृतो रुदन् ४ (क्रन्दन् शोचन् विलपन् ) महता ऋद्धिसत्कारसमुदयेन श्रेणिकस्य राज्ञो नीहरणं करोति, कुखा बहूनि लौकिकानि मृतकृत्यानि करोति । . ततः खलु स कूणिकः कुमार एतेन महता मनोमानसिकेन दुःखेनामिभूतः सन् अन्यदा कदाचित् अन्तःपुरपरिवारसंपरितः समाण्डामत्रोपकरणमादाय राजगृहात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्रैव चम्पा 'नगरी तत्रैवोपागच्छति । तत्रापि खलु पिपुलभोगसमितिसमन्वामतः कालेन अल्पशोको जातश्चाप्यभूत् । २० For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy