________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
१५२
निरयावलका सूत्र नयरी तेणेव उवागच्छइ । तत्थवि णं विउलभोगसमिइसमन्नागए कालेणं अप्पसोए जाए यावि होत्था ।
तएणं से कुणिए राया अन्नया कयाइ कालादीए दसकुमारे सहा. वेइ, सद्दावित्ता, रज्जं च जाव जणवयं च एकारसभाए विरिंचइ, विरिचित्ता सयमेव रजसिरिं करेमाणे पालेमाणे विहरइ ॥ ३९ ॥
छायाततः खलु सा चेल्लना देवी कणिकं राजानमेवमवादीत-कथं खलु पुत्र ! मम तुष्टिा उत्सवो वा हर्षों वा आनन्दो वा भविष्यति यत्खलु त्वं श्रेणिकं राजानं प्रियं दैवतं गुरुजनकमत्यन्तस्नेहानुरागरक्तं निगडबन्धनं कृता आत्मानं महतार राज्याभिषेकेण अभिषेचयसि ।
ततः खलु स कुणिको राजा चेल्लनां देवीमेवमवादीघातयितुकामः खलु अम्ब ! मम श्रेणिको राजा, एवं मारयितुं, वन्धयितुं, निःक्षोभयितुकामः खलु अम्ब ! मम श्रेणिको राजा, तत्कथं खलु अम्ब ! मम श्रेणिको राजाऽत्यन्तस्नेहानुरागरक्तः ।
ततः खलु सा चेल्लना देवी कूणिकं कुमारमेवमवादीत्-एवं खलु पुत्र ! खयि मम गर्ने आभूते सति त्रिषु मासेषु बहुमतिपूर्णेषु ममायमेतद्रूपो दोहदः प्रादुर्भूतः-धन्याः खलु ता अम्बाः यावत् अङ्गपतिचारिकाः, निरवशेषं भणितव्यं यावत् यदापि च खलु त्वं वेदनयाऽभिभूतो महता यावत् तूष्णीकः संतिष्ठसे, एवं खलु तव पुत्र ! श्रेणिको राजाऽत्यन्तस्नेहानुरागरक्तः।
ततः खलु स कूणिको राजा चेल्लनाया देव्या अन्तिके एतमय श्रुत्वा निशम्य चेल्लनां देवीमेवमवादीत्-दुष्ठु खलु अम्ब ! मया कृतं श्रेणिकं राजानं प्रियं देवतं गुरुजनकमत्यन्तरनेहानुरागरक्तं निगडबन्धनं कुर्वता, तद् गच्छामि खलु श्रेणिकस्य राज्ञः स्वयमेव निगडानि छिनमि, इति कृत्वा परशुहस्तगतो यत्रैव चारकशाला तत्रैव प्रधारयति गमनाय ।
For Private and Personal Use Only