________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टीका कूणिकको अधुलोवेदना
१४१ ____तए णं तस्स दारगस्स अम्मापियरो तइए दिवसे चंदसूरदंसणियं करेंति जाव संपत्ते बारसाहे दिवसे अयमेयारूवं गुणनिप्फन्नं नामधिज्जं करेंति, जम्हाणं अम्हं इमस्स दारगस्स एगंते उक्कुरुडियाए उज्झिज्जमाणस्स अंगुलिया कुक्कुडपिच्छएणं दूमिया, तं होउ णं अम्हं इमस्स दारगस्स नामधेनं 'कूणिए' । तए णं तस्स दारगस्स अम्मापियरो नामधिजं करेंति 'णिय'त्ति ॥३५॥
छाया
ततः खलु तस्य दारकस्य एकान्ते उत्कुरुटिकायामुज्झ्यमानस्याग्रा. गुलिका कुकुटपिच्छकेन दूना चाऽप्यभूत् , अभीक्ष्णमभीक्ष्णं पूयं च शोणितं चाभिनिस्स्रवति । ततः खलु स दारको वेदनाभिभूतः सन् महता महता शब्देन आरसति । ततः खलु श्रेणिको राजा तस्य दारकस्याऽऽरसितशब्दं श्रुत्वा निशम्य यत्रैव स दारकस्तत्रैवोपागच्छति, उपागत्य, तं दारकं करतलपुटेन गृह्णाति, गृहीला तामग्रालिकामास्ये मक्षिपति, मक्षिप्य, पूर्य च शोणितं चास्येन आमृशति । ततः खलु स दारको नितो निवेदनस्तूष्णीक. संतिष्ठते । यदापि च खलु स दारको वेदनयाऽभिभूतः सन् महता-महता शब्देन आरसति तदाऽपि च खलु श्रेणिको राजा यत्रैव स दारकस्तत्रैवोपागच्छति, उपागत्य तं दारकं करतलपुटेन गृह्णाति, तदेव यावत् निर्वेदन स्तूष्णीकः संतिष्ठते ।
ततः खलु तस्य दारकस्याम्बापितरौ तृतीये दिवसे चन्द्रसूर्यदर्शनं कारयतः यावत् संप्राप्ते द्वादशाहे दिवसे इममेतद्रूपं गुणनिष्पन्नं नामधेयं कुरुतः, यस्मात् खलु अस्माकमस्य दारकस्य एकान्ते उत्कुरुटिकायामुज्झ्यमान स्या लिका कुकुटपिच्छकेन दूमिता (कूणिता) तद् भवतु खलु अस्माकमस्य दारकस्य नामधेयं 'कूणिकः' । ततः खलु तस्य दारकस्य अम्बापितरौ नामधेयं कुरुतः 'कूणिकः' इति ॥३५॥
For Private and Personal Use Only