________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोका चेल्लना रानीका दोहद
१२३. पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव सूणा तेणेव उवागच्छंति, उवागच्छिता, अल्लं मंसं रुहिरं वत्थिपुडगं च गिहंति, गिण्हित्ता, जेणेव अभए कुमारे तेणेव उवागच्छंति, उवागच्छित्ता, करयल० तं अल्लं मंसं रुहिरं वत्यिपुडगं 'च उवणेति ॥३०॥
छाया
इतश्च खलु अभयः कुमारः स्नातः यावत्-शरीरः स्वकात् गृहात प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्रैव बाह्या उपस्थानशाला यत्रैव श्रेणिको राजा तत्रैवोपागच्छति, श्रेणिकं राजानम् अवहत० यावद् ध्यायन्तं पश्यति, दृष्ट्वा एवमवादी-अन्यदा खलु तात ! यूयं मां दृष्ट्वा हृष्ट० यावद्हृदयाः भवथ, किं खलु तात ! . अथ यूयम् अवहत० यावद् ध्यायथ, तद् यदि खल्वहं तात ! एतस्यार्थस्याऽर्हः श्रवणतायै तदा खलु यूयं मम एतमर्थं यथाभूतमवितथमसंदिग्धं परिकथयत, यस्मात् खल्वहं तस्यार्थस्यान्तगमनं करोमि । .. ततः खलु स श्रेणिको राजा अभयकुमारमेवमवादी-नास्ति खलु पुत्र ! स कोऽप्यर्थः यस्य खलु बमनहः श्रवणतावै । एवं खलु पुत्र ! तव क्षुल्लमातुश्चेल्लनाया देव्यास्तस्योदारस्य यावत् महाखमस्य त्रिषु मासेषु बहुमतिपूर्णेषु यावत् उदरवलिमासैः शूलकैश्चः यावत् दोहदं विनयन्ति । 'ततः खलु सा चेल्लना देवी तस्मिन् दोहदे अविनीयमाने शुष्का यावद् ध्यायति । ततः खल्वहं पुत्र ! तस्य दोहदस्य सम्पत्तिनिमित्तं बहुभिरायैरुपायैश्च यावत् स्थिति वा अविन्दन् अपहत० यावद् ध्यायामि ।
ततः खलु सः अभयः कुमारः श्रेणिकं राजानमेवमवादी-मा खलु तात ! यूयम् अवहत० यावद् ध्यायत, अहं खलु तथा यतिष्ये यथा खलु मम क्षुल्लमातुश्चेल्लनाया देव्यास्तस्य दोहदस्य सपत्तिर्भविष्यतीति कला श्रेणिक 'राजानं तामिरिष्टाभिर्यावद् वल्गुभिः समाश्वासयति, समाधास्य यत्रैव स्वक
For Private and Personal Use Only