________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनिसुव्रतस्वामि
द्वितीयः सगः
चरितम्
॥४३॥
सप्तमो भवः
EXOXOXOXOXOXOXOXOXOX
निमित्तशकुनादीना-ममङ्गल्यात्पदे पदे । बलाद् व्यावर्त्य नीतोऽसौ, मत्रिमिनीतिपारगैः॥ ६५२॥ प्रदत्वासु प्रतोलीसु, सब्जे यत्रगणेऽपि च । धानुष्कलक्षपूर्णासु, विष्वग्विद्याधरीष्वपि ॥ ६५३ ॥ संहतीक्रियमाणे च, प्राकारोपरि गोलके । भज्यमानासु वापीषु, बहिःस्थासु पदे पदे ॥ ६५४ ॥ स्फोठ्यमानासु पर्वासु, बहिःपुष्करपतिषु । छिद्यमानेषु वृक्षेषु, ध्रियमाणेषु पत्तिषु ॥ ६५५ ॥ आगत्य नमिभूपालो, दत्त्वा वासान्बहिःस्थितः । कष्टसाध्यमजेयं हि, कोट्टदुर्ग महीभुजाम् ॥६५६॥
[चतुर्भिः कलापकम् ] वहन्ते रौद्रयत्राणि, युध्यन्ते पत्तयो मिथः । बहिस्थैः खण्ड्यते वप्रो, मध्यस्थैराशु पूर्यते ।। ६५७ ।। कपिशीर्षाग्रतो व्यूढदारुणि द्विषतः प्रति । यमस्योपायनानीव, मुच्यन्ते तुमुलोल्वणम् ॥ ६५८ ॥ प्रपश्चबहुला मञ्चा, विरच्यन्ते बहिःस्थितैः । ज्जाल्यन्ते वहितैलेन, तेऽपि मध्यस्थनागरैः॥ ६५९ ॥ केवलं पवनस्यैव, न सञ्चारो विशी क्वचित् । सुदर्शनपुरस्यान्तं, तुङ्गप्राकारशालिनः॥ ६६० ॥ एवं प्रवर्तमानेषु, वासरेषु कतिष्वपि । भवत्सु भटकोटीना, संहारेषु दिवानिशम् ॥ ६६१ ॥ ___ तदानीं सुव्रता साध्वी, विहरन्ती यथाविधि । तयोः समरसंरम्भं समाकघैत्यचिन्तयत् ॥६६२॥ अन्योऽयमत्सराक्रान्ती, स्फुटं नरककोटरे । एतौ निपततां मा स, चिरं ध्यात्वेति चेतसि ॥६६शा प्रवर्तिनीमनुज्ञाप्यो-दित्वा वृत्तं यथातथम् । ज्ञापिता वेत्रिणा राज-द्वारमेषामन्नमेः॥६६४॥
मानवानाम् ।
युगवाहुनिदर्शनम्
॥४३॥
For Private and Personal Use Only