SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनिसुव्रतस्वामिचरितम् ॥ ४२ ॥ **** ******* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भुक्तभोगतया ज्ञात-संसार स्थितिमत्तया । विधित्सया तपस्यायाः, श्रीपद्मोऽप्याहरन्नमिम् ॥ ६२३ ॥ वत्स ! राज्यश्रियं प्राज्यां, तदिदानीमलङ्कुरु । चतुर्थपुरुषार्थस्य, करिष्ये साधकं तपः ॥ ६२४ ॥ ततोऽनिच्छति चैतस्मिन्यस्य राज्यश्रियं नृपः । जैनीं दीक्षां स्वयं प्राप्य, पद्मर्षिर्मोक्षमप्यगात् ॥ ६२५ || नमिः पुनरसौ राजा वशीकृतमहीतलः । चन्द्रेऽपि राजशब्दं न सहे किमुत विद्विषाम् ॥ ६२६ ॥ कदाचन शरत्काले, मदाम्भः प्लुतलोचनः । आलानस्तम्भमुन्मूल्य, हत्वा हस्तिपकानपि ||६२७ ॥ चरण्डान् पातयन्नुच्चैर्भञ्जन् सौधशिखावलीम् । निघ्नन्पौरान् कराघातै - निर्जगाम महागजः ॥ ६२८ || [युग्मम् ] जवना वाजिनां सङ्घा, महामात्रैः पदे पदे । व्यावर्त्तयितुमुत्सिक्तं, गजाधीशं डुढौकिरे ||६२९॥ केवलं पश्यतामेव, तेषां विस्मेरचक्षुषाम् । अगोचरं गजः प्राप पक्षोड्डीन इवाचिरम् || ६३० ।। इति कालान्तरेणायं, विज्ञप्तो नमिभूपतिः । परदेशस्थ जवनै भेंटेः कैश्चिदुपेत्य च ।। ६३१ ।। समस्ति मालवे देशे, पुरं नाम्ना सुदर्शनम् । राजा चन्द्रयशास्तत्र, चन्द्रशुभ्रयशोनिधिः ॥६३२॥ तेन स्वविषये भ्राम्यन्, विज्ञाय तव वारणः । नयति स्म पुरं स्वीयं, सारग्राही न को भवेत् ? ॥६३३॥ ततो नमिनरेन्द्रेण, महाधैर्यो महामतिः । दूतस्तन्मार्गणायाथ, प्रेषितस्तत्र पत्तने ॥ ६३४ ॥ तत्रैत्य चन्द्रयशसं, प्रणिपत्य वचोऽवदत् । देव ! श्रीनमिभूपाल - वारणोऽस्ति तवान्तिके ।।६३५|| तमय महीपाल ! वर्द्धय प्रीतिवल्लरीम् । तन्मार्गणाय देवेन प्रहितोऽस्मि तवान्तिके ।। ६३६ ।। १ गर्विष्ठम् । For Private and Personal Use Only *•*•*•*•*•****XXX Fors द्वितीयः सर्गः सप्तमो भवः युगबाहुनिदर्शनम् ॥ ४२ ॥
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy