SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमो भवः परीतमङ्गरक्षौघैर्दत्तदृष्टिं च गेन्दुके । बालं विलोकयामास सा बालेन्दुमिवोदितम् ॥६०९॥[युग्मम् ] परमानन्दमग्रेव, सुधासिक्तेव तत्क्षणम् । सन्तोषपोषपूर्णेव, सा तदाऽभून्महासती ॥६१०॥ विलोक्य सुचिरं बाल-मालानं दृग्विषाणिनाम् । जगाद त्रिदशं देवी, मुश्च कस्मिन्नुपाश्रये ॥ ६११॥ __ अन्तर्दधे सुरो मुक्त्वा, तां साध्वीनामुपाश्रये । तया च वन्दिता भक्त्या, पञ्चाङ्गेन प्रवर्तिनी ॥६१२॥ ऊचुः प्रवर्तिनीमिश्राः, साम्भःपाथोदनिःखनाः । असार एष संसारो, न स्थैर्यस्य मुखं सुखम् ॥६१३॥ (यतः-) कति न कति न भुक्ता, भूरि भोगोपभोगाः । कति न कति न जाताः, पुत्रपौत्रादियोगाः । कति न कति न भूताः, सार्द्धमेतैर्वियोगा-स्तदिह भवनिवासे का सुतः कः परो वा ? ।। ६१४ ॥ एतत्स्वरूपं विज्ञाय, ये गृह्णन्ति जिनव्रतम् । तेषां कराम्बुजे मुक्ती, राजहंसीव खेलति ॥ ६१५ ॥ (यतः-) एकाहमपि निर्मोहः प्रव्रज्यापरिपालकः । न चेन्मोक्षमवाप्नोति, तथापि स्वर्गभाग्भवेत् ॥६१६॥ श्रुत्वेति देशनामेनां, तत्पार्धे जगृहे व्रतम् । तस्या यथार्था जगति सुव्रताऽऽख्या च पप्रथे ।। ६१७॥ तां दीक्षां प्राप्य साकासन, शिक्षा कक्षीचकार सा | शिक्षाहीना तु या दीक्षा, सा भिक्षामात्रकारणम् ॥६१८।। पिण्डं शय्यां तथा वस्त्रं, पात्रकं च यथाविधि । आददाना चकाराऽसौ, दशधा साधुसक्रियाम् ॥६१९।। ___ इतश्च तस्य बालस्य, महापद्ममहीपतिः । नमिरित्यभिधां चक्रे, परमानन्द मेदुरः ॥ ६२० ॥ वर्द्धमानः कुमारोऽथ, पपाठ सकलाः कलाः । अष्टोत्तरसहस्रं स, उपायंस्त नृपात्मजाः ॥ ६२१ ॥ स ताभिर्मानयन्साकं, सुखं विषयसम्भवम् । यौवराज्यश्रियं भेजे, सत्यङ्कारं नृपश्रियः ॥ ६२२ ॥ युगबाहुनिदर्शनम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy