________________
Shri Mahavir Jain Aradhana Kendra
****
www.kobatirth.org
अथोवाच महासत्त्वो, राजा हत्वा निजानुजम् । तत्पदैरेव चलितो, निजप्रासादमासदत् ॥ ५८१ ॥ दण्डेनेव कृतान्तस्य तमसेव शरीरिणा । दुर्जनेनेव कुटिल गतिना भीतिकारिणा ।। ५८२ ।। तरङ्गणेव पापस्य, सोदर्यवधजन्मना । दुष्टो दष्टो भुजङ्गेन शीघ्रं पापफलं महत् ।। ५८३ ।। [ युग्मम् ] कथमस्माकमेतस्मिन् पापीयसि महीयसि । अद्यापि स्थातुमुचितमित्येषोऽमुच्यताऽऽत्मभिः ॥ ५८४ ॥ स्पष्टदुष्टाशयो मृत्वा चतुर्थ्यां नरकावनौ । पङ्कप्रभाभिधानाया-मुदपद्यत नारकः ।। ५८५ ।। कृत्वोर्ध्वदेहिकं कार्य - मेकचित्यां द्वयोरपि । प्रतिष्ठितश्चन्द्रयशा, आधिपत्ये महत्तमैः ।। ५८६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवं वदति निर्ग्रन्थे, सर्वाङ्गीणविभूषणम् । निजदेहप्रभापूरैस्तरन्तमित्र विस्तृतैः ॥ ५८७ ॥ अनेककिङ्किणीजालाs - वचूलाग्रविमानतः । अवतारं वितन्वान - मेषाऽद्राक्षीत्पुरः सुरम् ।। ५८८ ।। [ युग्मम् ] तदा प्रदक्षिणीकृत्य, गुणकाव्यानि कोटिशः । ननाम कामरेखां तां भूतलन्यस्तमस्तकः ॥ ५८९ ।। ततः प्रणत्य निर्ग्रन्थ- पादपद्मं शुभाशयः । भूमिभागे यथायोग्ये, निषसाद तदग्रतः ।। ५९० ॥ अवज्ञास्थानमालोक्य, मुनेः स्त्रीपूर्ववन्दनात् । बभार खेचरः कोपं, कोपस्तीर्थे हि तादृशः ॥ ५९१ ॥ नीति किमेष नो वेत्ति ? वेत्ति वा विस्मृता परम् । नीतिविज्ञं करिष्यामि, सुरं शिष्यमिवाऽचिरात् ॥ ५९२ ॥ अवधिज्ञान विज्ञात-तद्भावः खेचरं सुरः । उवाच साधु-साध्वीट, चिन्तितं निजचेतसि ॥ ५९३ ॥ यदत्राऽद्यनमस्कार - कारणं शृणु तन्मम । सुदर्शनपुरे भूमानभून्मणिरथाह्वयः ॥ ५९४ ॥
१ अवचूलः पताका । २] मदनरेखाम् ।
For Private and Personal Use Only
XXX-01-0
xoxoxoxoxo
सप्तमो भवः
युगबाहुनिदर्शनम्