SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनिसुव्रतस्वामि चरितम् ॥ ३९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । धर्मकर्मतन्द्रालु - दयालुर्भव मय्यलम् । नभः क्रोडात्पतन्तीं मां, क्षिप्रं रक्षन् पिता मम ॥ ५४० ॥ ( यतः ) - जीवितं शीलमेवैकं, कुलीनस्य क्षमातले । यतः शीलविहीनानां जीवितस्य कथा वृथा || ५४१ ॥ अहमद्य सरस्तीरेजीजनं नन्दनं वरम् । तत्रैव कदलीधाम्नि मुक्तत्राऽङ्गक्षालनाकृते ।। ५४२ ।। गता सरोवरे व्योम्नि, समुत्क्षिप्ता निषादिना । रक्षिता भवता तत्र भवताऽहं दयालुना ||५४३ || [ युग्मम् ] जीविष्यति कथं बालः १ स व्यालबहुले वने । तदपत्यभिक्षादानात् पुण्यराशिमुपार्जय ।। ५४४ ॥ दयावीर ! क्रियासार ! मां जीवयितुमिच्छसि । तं बालमविलम्बं मे, हृतं दर्शय दर्शय ।। ५४५ ।। एवमुक्तवतीं साध्वीं व्याजहार नभश्वरः यदि सुन्दरि ! भर्तारं मां नूनं प्रतिपद्यसे । ५४६ ॥ तदा तव समादेश - कार्यहं किङ्करस्तव । व भोगान्मया साक- मन्यत्मानिनि ! मा वदेः ||५४७ || अपरश्च शृणु श्रोत्र - पेयो मम कथारसः । गन्धारविषये रत्ना बहे पुरवरे पुरे ।। ५४८ ।। मणिचूडाभिधो विद्याधरः प्रीतिकरः सताम् । तस्य राज्ञी सतीरनं, बभूव कमलावती ॥ ५४९ ॥ मणिप्रभाभिधानोऽहमभवं तनयस्तयोः । आधिपत्यं द्वयोः श्रेण्यो दधानो जनको मम ।। ५५० ॥ पटलग्नं तृणमिव, त्यक्त्वा राज्यं विरागवान् । दीक्षां जग्राह तीर्थेश भाषितां शिवसाधिनीम् ॥५५१ || [ युग्मम् ] स पुनश्चारणः साधुः, ग्रामाकरपुराकुलाम् । वसुधां विहरन्नय, द्वीपं नन्दीश्वरं ययौ ।। ५५२ ।। तं नमस्कर्तुमेतर्हि, यानस्मि मृगलोचने ! | अद्राक्षं भवतीं मर्त्य - लोकपादपदोहदाम् ॥ ५५३ ॥ For Private and Personal Use Only FoxoxoxoxoxoxoxoxoxoxoxO द्वितीयः सर्गः सप्तमो भवः युगबाहु निदर्शनम् ॥ ३९ ॥
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy