SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमो भक अङ्गोपाङ्गभवं शौचं, यावदाचरितुं सती । प्रावर्तिष्टतरां तावद-कस्मात्सरसो जलात् ॥ ५२५ ॥ प्रतिहस्तः कृतान्तस्य, जङ्गमोञ्जनपर्वतः । कुञ्जरः सलिलोत्पन्न,- उल्ललास भयङ्करः ।। ५२६ ॥[युग्मम् ] अमुं विलोकमानायास्तस्या उरुयुगं भयात् । खिन्नं निखिलमप्यङ्ग, जाते नेत्रे च चञ्चले ॥ ५२७॥ विमूढं मानसं तस्या मतिरप्यगमद्धतिम् । उपाया गलिताः सर्वे, दुर्जेयं दैवनाटकम् ॥ ५२८॥ कथं भ्राम्यसि कान्तारे? विस्मेराननपङ्कजा । सदेहापि ब्रजेत्स्वर्ग, इति ध्यात्वैष शुण्डया ॥ ५२९ ।। गृहीत्वाभिनभः क्षिप्ता, कुञ्जरेण जडात्मना । छिद्रे छिद्रशतानि स्युः, दुःखे दुःखशतानि हि ॥५३०॥ तस्मिंश्चावसरे कश्चि-द्विद्याधरशिरोमणिः । गच्छन् व्योम्नि विमानेन दृष्टवांस्तां तथाविधाम् ॥५३१॥ आददे तां नभोगर्भे, जातामिव सुलोचनाम् । यावदायुर्भवेत्ताव-दुपायः किल जन्मिनाम् ।।५३२॥ तां च रूपवतीं दृष्ट्वा, लसल्लावण्यशालिनीम् । समुल्ललास शृङ्गार-क्षीरवारांनिधिः क्षणात् ।। ५३३॥ तेनापि रागमाहात्म्या-त्सद्यो मणिरथायितम् । यत्र वा तत्र वा यातु, कासः किल लोठ्यते ॥५३४॥ मूकेव गतजीवेव, भ्रान्तेव गतधीरिख । उच्छिन्नसर्ववंशेव तद्गिरः श्रवणादभूत ।। ५३५ ॥ तां दृष्ट्वा समया कुर्वन् , स्माह वैताढ्यमीक्षत । क्रीडाभूः सर्वदेवानां, स्वर्गलोकोऽपरःक्षितौ ।। ५३६ ॥ ततश्चिन्तितममुया, धिगिमां मामकी तनुम् । दूरक्ष्यं शीलरत्नं मे, सर्वतो विपदां पदाम् ॥ ५३७॥ किं करोमि क गच्छामि ? सङ्कटे पतिताऽस्म्यहम् । आकाशपतितेवाऽहं, कथं स्यां दैववल्गितात् ? ॥५३८॥ विमृश्येति सती स्माह, श्रद्धालुः परयोषितम् । ग्रहयालुरकीर्ति च पतयालुश्च दुर्गतिम् ।। ५३९ ॥ युगवाहुनिदर्शनम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy