SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमो भवः सर्वः पूर्वकृतानां हि, कर्मणां लभते फलम् । परो निमित्तमा स्था-दपराधगुणेष्वपि ॥ ४९६ ॥ युगबाहुस्तदीयोक्त्या, सर्वथा गतमत्सरः । स्मरन् पश्चनमस्कार, विपद्य त्रिदिवं गतः ॥ ४९७ ॥ तदनन्तरमेवौच्चैः लोकैः शोकपरैः समम् । क्रन्दितुं चन्द्रयशसि, प्रवृत्ते ध्यातवत्यसौ ॥ ४९८ ॥ धिगिदं रूपलावण्यं धिगङ्गं चङ्गिमास्पदम् । दुरात्मना नरेन्द्रेण, यदयं निहतः पतिः ॥ ४९९ ॥ भर्तारमित्र मत्पुत्रं, मन्तं तं वारयेत्तु कः? । निहन्ति जननीं यः स्वां, स श्वसुं हन्ति खण्डशः ॥५०॥ तस्मात् पुत्रस्य शीलस्य, पालनाय पलायनम् । कालोचितं विचार्यति, निष्क्रान्ता स्वपुरादसौ ॥५०१॥ क्रमशः क्रमशो यान्ती, ताम्यन्ती नृपचेष्टिते । व्यालोलव्यालवेतालो-ल्लापोल्लेखितदिङ्मुखाम् ॥५०२।। पत्रशालितमालाली-सला कालखेलनाम् । रटन्ती प्रापदटवीं, हन्त ! कर्मविजृम्भितम् ।। ५०३।। [युग्मम् ] भ्राम्यन्ती तत्र ताम्यन्ती, निजलावण्यसम्पदा । त्रियामां गमयामास, त्रियुगस्थितिसभिभाम् ॥५०४॥ मृते पत्यौ किमद्यापि, कापि जीवेत्क्षिताविति । उल्लापयन्निवैशिष्ट, बनेभं सा सहितम् ।।५०५॥ दृष्ट्येमां कुञ्जरो भ्रान्तां, भीमो मणिरथायितः । कुर्वाणो हितं शूढं, दधावे वनवारणः ॥ ५०६॥ दूरादेव सती चक्रे, पलायं त्वरितक्रमैः । रक्षणीया यतः प्राणा भयेषु न धनादिकम् ॥५०७|| धावन्त्याऽथ महासत्या, भीतितारतरदृशा । सधर्मा धर्मराजस्य, मृगराजो निरैक्षत ॥ ५०८ ॥ पुच्छातुच्छच्छटाटोपैः, वारणेन्द्रान्विघट्टयन् । मृगारिः पुरतोऽतिष्ठ-द्रोपादुन्द्रितकेशरः ।। ५०९॥ १ गर्जनया सहितम् । युगबाहुनिदर्शनम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy