________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः सर्गः
श्रीमुनिसुव्रतस्वामि
चरितम् ॥३७॥
धिग् ! धिग्! श्लथत्वं कोशस्य, हा! मे निरवधानता । यदयं पतितः खड्गो मा भैः सुन्दरि! सर्वथा ॥४८१|| स्वस्थस्तवायं प्राणेशो भव स्वस्था शुभाशये! । अहं स्वस्थं करिष्यामि, यामीति गतवान्वदन् ॥४८२।। ततः कुमारवीरैः स, पायितो निर्मलं जलम् । अज्ञायि चन्द्रयशसा, तत्वरूपं तथाविधम् ।।४८३॥ हा! तात ! तात ! किमिद-मचिन्तितमुपागतम् । प्रलपनित्यगाद्वैद्यै-रन्वितो जनकान्तिके ॥४८४॥ चिकित्साकुशलैः प्राज्ञै-रायुर्वेदानुगामिभिः । न जीवतीति मुक्तश्च, विद्राणाऽऽननपङ्कजैः ॥४८५॥ धौषधस्य योग्योऽयं कार्य धौषधं वरम् । धीरा मदनरेखेति, सम्यग् वक्तुं प्रचक्रमे ॥४८६॥ __ क्रोधं मुश्च क्षमा धेहि, मानं मईय सर्वतः । पुषाण माईवं चित्ते, मायां खण्डय खण्डशः ॥४८७।। मण्डयाऽऽर्जवतत्त्वेन, सर्वसत्वं मनस्यपि । लोभं शोषय सन्तोष पोषयात्ममनोऽम्बुजम् ॥४८८।। प्राणेश्वर ! ततोऽमीषां, चतुर्णामपि वैरिणाम् । दुग्रहं निग्रहं कृत्वाऽ- नुगृहाण क्षमादिकम् ॥४८९।।
यदूचे-शान्तिः कृशोदरी येषा- मेषा जागर्ति मानसे । दोषोल्लासेऽपि तेषां स्यात् , क्व कोपाटोपतस्करः१४९० मावाग्निप्रतापेन, द्रावयैनां कुशीलताम् । साधुत्वात् सिद्धिसौधं त्वं, प्रवेष्टुं लप्स्यसे यतः॥४९१॥ वार्यतां वार्यतां माया, छायावजाड्यभीरुणा । सेव्यतां सेव्यतां धर्मों, धर्मवत् खार्जवान्वितः॥४९२॥ पीत्वा सन्तोषपीयूषं, सम्पद्यस्वाऽजरामरः । तृष्णा पुष्णाति या तापं, साप्यतो विनिवर्तते ।।४९३।। मा कृथाः सर्वथा खेदं, स्वामिन् ! मणिरथेऽधुना । विराद्धोऽयं यतः क्वापि, पुरातनभवे त्वया ॥४९४॥ यदर्जितं वयं दुःखं, सुखं वा पूर्वकर्मभिः । संसारे तदिदं सर्व, स्वयमेवाऽनुभूयते ॥ ४९५ ॥
XXXXXXXXX
सप्तमो भवः
युगबाहुनिदर्शनम्
॥३७॥
For Private and Personal Use Only