________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमो भकः
कलविकी यथा श्येन-मवस्कन्दमिव प्रजा । नदीपूरमिव ग्रामोऽनश्यदृश्यशिरोरुहा ॥४१४॥ [युग्मम्] आ:! किमेतन्महत्कष्ट, भाषमाणा मुहुर्मुहुः। भिया पलायितुं साथ, प्रवृत्ता त्वरितक्रमैः ॥ ४१५ ॥ राजापि तादृशीमेना - मुदीक्ष्य ध्यातवानिति । कुलाङ्गना सदैव स्या-त्रपाऽऽभरणभूषिता ॥ ४१६ ॥ गच्छन्तीं शपथैरेनां, निषिध्य क्षितिनायकः । पर्यक्रे निषसादाशु, निजगादाथ सादरम् ।। ४१७ ।। क्क यातासि सरोजाक्षि ! किमु बिभर्षि भीरुताम् । तवाज्ञाकारकोऽस्मीति, विद्धि विज्ञानकौशले! ॥४१८॥ श्रुत्वेति भूभुजो वाक्यं, तत्सर्व तत्पदेऽदधत् । अन्यथा कथमीक् स्या-द्वचनोपक्रमोर्गलः ॥४१९॥
अथ दध्यौ सती चित्ते, हा! हा! कन्दर्पवल्गितम् । विवेकिनोऽपि येनोचै-दुर्विवेकक्रियाकृतः॥४२०॥ विटा इव विचेष्टन्ते कुल्या अपि कुचेष्टया। महात्मानोऽपि येनोचै-नींचायन्ते प्रमद्वराः ॥ ४२१ ॥ सकलेऽपि जीवलोके, तेनात्रामारिघोषणोद्घुष्टः । एकमपि दुःखितं यः सत्त्वं बोधयति जिनधर्मे ॥४२२॥ इति जिनवचश्चित्ते, चिन्तयन्ती महासती । प्रबोधार्थमनुक्ष्मापं वक्तुमारभतोज्वलम् ।। ४२३ ॥ यद्यप्यनल्पसङ्कल्प-कल्लोलावलिचालिता। तथापि न त्यजन्त्यब्धि-वन्मर्यादां महाधियः॥४२४।। ज्येष्ठ ! श्रेष्ठकर नेत्य-मनिष्टं किं करोषि मे ?। पूजनीयो भवान्यस्मात् , पितेव न्यायवत्सलः ॥४२५॥ एतस्यां भाषमाणाया-मथोवाच महीश्वरः। स्वमजल्पनसादृक्षम् , ज्येष्ठत्वं मम गद्यते ॥ ४२६ ॥ ज्येष्ठः स एव रम्भोरू! यस्त्वया वीक्षितो दृशा । सुधा सैव गिरं यां त्वं, भाषसेलीकमम्बुधौ ॥४२७॥ १ चटका। २ सेनायाः भाक्रमणम् ।
युगवाहुनिदर्शनम्
For Private and Personal Use Only