SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनि द्वितीया सर्गः सुव्रतखामि चरितम् ॥३४॥ ससमो मनः इत्याधनल्पसङ्कल्प - श्रेणिनिःश्रेणिवर्त्मना । दुर्वारमारवीरोऽस्या-ऽध्यारूढश्चित्तमन्दिरे ॥३९९ ॥ तदनन्तरमेवास्य, विचारेण पलायितम् । हृतापवादया चित्ता-द्गतं मर्यादया तया ॥ ४०० ॥ यशःप्रतिष्ठया नष्ट, जगभैर्मल्यनिष्टया । अस्तोकेन विवेकेन, हृतं कामभयादिव ॥४०१॥ अथ तां प्रत्यहं ध्यायन, स्मरापस्मारतत्परः। न दृशापि निरक्षिष्ट, दलितारिबलं बलम् ॥ ४०२॥ न विवेद महामात्य-शिक्षादीक्षां महायताम् । न दधार चिरं चित्ते, सदाचारं कदाग्रहात् ।। ४०३॥ किं गत्वा सेवक इव - प्रस्तावात् प्रार्थये स्वयम् । विज्ञापयामि किं त्वेनाम् ? दूतीशतमुखेन वा ॥४०४॥ त्यागलीलाशतैर्यद्वा, तन्वी सम्भावयामि किम् ? । देवः काष्ठमयोऽप्युच्चै-द्रव्यैर्वतीति सत्यगीः॥४०५॥ यहूरस्थमतीवोचै-स्तद् दानः सुलभ ननु । अपि चुम्बति मातङ्ग, कपोले हि शिलीमुखः ॥ ४०६ ॥ इति ध्यात्वा ततः पूर्व, राजा मणिरथोऽन्वहम् । दुःकूलानि सुमूलानि, शृङ्गारतरुशाखिनः॥४०७|| पञ्चसुगन्धिकूलानि, ताम्बूलानि दिवानिशम् । कुङ्कुमानितु जात्यानि, प्रेषयामास दुर्मनाः ॥४०८॥[युग्मम्] सा जग्राहाखिलं शुद्ध-स्वान्ता प्रेषितमञ्जसा । ज्येष्ठः पितेव पुत्रीव, स्नुषाहं किं विकल्पना ? ॥४०९॥ इतश्च भूभुजाऽध्यायि, प्रेषयामि विशारदाम् । दूतीं काश्चिद्यथा कार्य, लीलयैव प्रसिद्ध्यति ॥ ४१०॥ इत्थं विनिर्मितं कार्य, न पडक्षीणमुद्भवेत् । अतः स्वयं निशीथिन्यां, मम यातुं प्रशस्यति ।। ४११ ॥ ध्यात्वेत्यन्येचुरुवीशो, गते दूरे सहोदरे । उन्मादात्मद्वितीयोऽथ, भ्रातुरावासमासदत् ।। ४१२ ।। एकाकिनममुं काम-रतमुद्रीक्ष्य दूरतः । करेणुरिव पारीन्द्रं, शार्दूलं सुरभिर्यथा ॥ ४१३ ॥ युगवाहुनिदर्शनम् ॥३४॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy