________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्टये भवः
वज्रर्षिातपर्यन्तो, विदधे मासिकं तपः। कृत्वा तरूपगमनं, प्राणांस्तत्याज शुद्धधीः॥३३४ ॥ ब्रह्मलोके समुत्पन्नो, देवत्वे भूरिवित्तवान् । देशसिन्धूपमायुष्क-स्तत्रासौ बुभुजे सुखम् ॥ ३३५ ॥
इति पञ्चम-षष्ठौ भवौ।
सप्तमो भवः
अथ सप्तमः भवः। इतश्च जम्बूद्वीपेऽस्मिन् , विदेहेषु मनोहरा । पुरी चन्द्रपुरी नाम, चम्पेत्यपरसज्ञिका ॥ ३३६ ।। नरपुङ्गव इत्याख्यस्तत्राऽभूनरपुङ्गवः । पुण्यश्री प्रेयसी तस्य, पुण्यश्रीरिव देहिनी ॥ ३३७॥ परिपूर्य निजायुष्कं, वज्रकुण्डलनाकसत् । तस्याः कुक्षाववातारी-दमारीकृतभूतलः ॥ ३३८ ॥ शुभेऽद्वथसूत सा सुतं, प्राचीव महसांपतिम् । महोत्सववरं राजा, वर्धापनमकारयत् ।। ३३९ ॥ श्रीमर्मेति नृपश्चके, नामेत्यस्य यथाविधि । सुरज्येष्ठ इति प्रीतो, द्वितीयं चातिरूपतः ॥ ३४०॥ धात्रीभिः पाल्यमानोऽसौ, लाल्यमानः कराम्बुजैः । क्रीड्यमानस्तु खेलाभिः, स यौवनमुपेयिवान् ॥३४॥ वसन्तश्रीप्रभृतिकाः, कन्यकाः काश्यपीभुजाम् । नरपुङ्गवभूपालो, नन्दनं पर्यणाययत् ॥३४२॥ नरपुङ्गवभूपेन, परलोकं प्रपित्सुना । सुरज्येष्ठो निजे राज्ये, चक्रे शक्र इवौजसा ॥ ३४३ ॥ विलासहंसिकापन, निच्छद्मप्रेममन्दिरम् । राज्यश्रीः प्रेयसी तस्य, राज्यश्रीरिव देहिनी ।। ३४४ ॥ १ पादपोपगमननामानमनशनम् । २ दशसागरोपमायुः। ३ सूर्यम् ।
For Private and Personal Use Only