SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः श्रीमुनिसुव्रतस्वामिचरितम् ॥३१॥ पञ्चमो भवः kXXXXXXXX जीवाः सर्वेषु तत्त्वेन, भ्रातृत्वेनापि जज्ञिरे । सम्बन्धः किं स कोऽप्यस्ति, स्पृष्टः कर्मवशैर्न यः१ ॥३१९।। अनेकानि सहस्राणि, चक्रवर्तिशतानि च । निर्वापितानि कालेन, प्रदीपा इव वायुना ॥ ३२०॥ प्रतिबोध्येति भूपालं, जिनदत्तोऽप्यशोकयत् । कथश्चिद्भोजयामास, कामदेवप्रियामपि ॥ ३२१॥ पूर्णेषु नवमासेषु, रतिः सूनुमसत सा । प्रतापदेव इत्याख्या, चकवान् जगतीपतिः ।। ३२२ ।। वज्रकुण्डलबोधार्थ-मिति विमलसाधुराट् । तत्रागात्समये वृष्टि-जर्जायते सस्यवर्धिनी ॥३२३॥ वनकुण्डलभूमीशो, वन्दितुं सपरिच्छदः । अगाद्ववन्दे सुगुरु-मसौ चक्रे च देशनाम् ।। ३२४ ॥ चक्रिणा वज्रनाभेन, क्षुण्णाया व्रतपद्धतेः। न दुष्करं महीपाल!, तद्वतं भज साम्प्रतम् ॥ ३२५ ॥ स्वामिन् ! मम मनोभावं, ज्ञानाद्विज्ञातवानसि । ममाभिप्रायतोऽप्यत्र, समागा मुनिसत्तम! ॥ ३२६ ॥ ततो नत्वा गुरुं वज्र-कुण्डलः क्षितिवासवः। प्रतापदेवं साम्राज्ये, न्यस्य भ्रातृतनूद्भवम् ॥ ३२७ ॥ वन्धमानगुणग्रामो, बन्दिमिर्विरवोलिना । स्थाने स्थाने ददानोऽथ, दानमर्थिषु चिन्तितम् ॥३२८॥ मन्त्रिणा पञ्चशत्याऽसौ, कामस्य प्रियया समम् । अभृन्महीश्वरो राज-संयमी संयमप्रियः॥३२९॥ [युग्मम् ] वज्रकुण्डलराजर्षि-रधीयानो जिनागमम् । आचार्यविमलेनासौ, पदे न्यस्तः शुभे दिने ॥३३०॥ महत्तरापदे न्यस्ता ज्ञातजैनागमा रतिः । सर्वातिशयपूर्णानां, महतां हि पदं महत् ॥ ३३१ ॥ रतिमहत्तरा तत्त्वा, दुष्करं सुतपस्ततः । देवभूयमगादेषा, प्राप्यते निवृति ततः ॥ ३३२ ॥ जगाम विमलाचार्यो, दिवं संलेखनाकृतः । प्रत्यबोधयदुर्वी च, वज्रकुण्डलसाधुराट् ॥ ३३३ ॥ XXXXXXXXXXX ॥३१॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy