________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तुरङ्गमखुराप्रैः स, खण्डितो जीर्णपत्रवत् । सोऽवाप निधनं मृत्योः, कालः केनाभिभूयते? ॥ ३०४॥ ततो गतवता सौधं, भूभुजा जिनवन्दनम् । विधाय वेत्रभृत्पृष्टः, कामः क्वास्ति सहोदरः ॥ ३०५॥ ततो वेत्रभृता विष्वग, वीक्षमाणेन तत्त्वतः । अलभ्यत गतप्राणः, कामदेवः कदर्थितः ।। ३०६॥ एत्य विज्ञपयामास, राजानं बेत्रभृत्तदा । कामदेवस्तुरङ्गस्य, पृष्टाभिपतितः क्षितौ ।। ३०७॥ राजोवाच स शोकातः, सम्फेटो वाजिनां यदा । तदा भ्राता कामदेवस्तुरगात्पतितः क्षिता ॥३०८॥ ओमिति प्रोदिते तेन, भूपालो मणिकुण्डलः । व्यचरत्पादचारेण, शोके नो नृत्वमीदृशम् ।।३०९॥ तच्छ्रुत्वा कामदेवस्य, वल्लभा रतिसज्ञिका । नृपेण सार्द्धमगम- त्तस्य मार्गयियासया ॥ ३१०॥ खुरस्तुरङ्गमैस्तीक्ष्णैः, खण्डितं दृष्टवानमुम् । आक्रन्दं चकवान् भूप-स्ततः कण्ठप्रमाणतः ॥ ३११॥ मीलद्विलोचनपुटो, मूर्छाछिदुरचेतनः । विधृतो मत्रिसामन्तैः, पतन् भूपः कथञ्चन ॥ ३१२ ॥ कथञ्चित् चेतनां प्राप्य, स्वस्थोऽभूद्भपतिस्ततः । तद्वद्रतिप्रिया मुख्य-शोकः सर्वेषु पूर्यते ॥ ३१३ ॥ देवानुगन्तुं भर्तार -मनुमन्यस्व मामिह । पत्यौ मृते गते कापि, जीवत्योऽपि मृतास्त्रियः॥३१४॥ रे! रे! जीव ! कथङ्कारं, नानुयासि स्वयं पतिम् । हिमांशुमनुयात्येव कौमुदी परलोकगम् ॥३१५॥ इत्युक्तिवादिनी देवी-मुवाच मणिकुण्डलः। युक्तमुक्तं त्वया सम्यक्, परं गर्भवती सती॥ ३१६ ॥ श्रुत्वेति कामदेवस्य, प्रियाऽतिष्ठदशोकधीः। भ्रूणहत्या विधातव्या, कथङ्कारं विवेकिना? ॥ ३१७॥
अथोचे जिनदत्ताख्यो, मित्रं मत्री नृपं प्रति । कः शोको ज्ञाततत्वानां भावितानां जिनागमे ॥३१८॥
पञ्चमो भवः
श्रीस०६
For Private and Personal Use Only