SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (इतश्च-)अनामया मृतिः खान्ते, पाथोदसमयोऽजनि । यस्मिन् गिरिनदीवेगा, वर्द्धयन्ति जलाविलाः।। १५९॥ एक वर्षाः परं पल्ली, परं धान्यस्य तुच्छता । एकं मरुः परं ग्रीष्म, इति सत्यं तदाऽभवत् ।। १६० ॥ इतो नाहलजालानि, चेलुस्तस्य जिघृक्षया । प्रस्तरैर्गोलकैवापि, समागत्योपदुद्रुवुः ॥ १६१ ।। प्रबलं बलमप्यस्य, नाहलौघेन सर्पता । चतुर्दिक्षु विनिक्षिप्त, वातेनेवाब्दमण्डलम् ॥ १६२ ॥ एकेन स्यन्दनेनाथ स्थितेन नृपजन्मिना । बलाद्भिल्लबलं भग्नं, दुर्जेया एव तादृशाः॥ १६३ ॥ पलायमानं तद्वीक्ष्य, पल्लीशो रणरङ्गितः । अभियोद्धमढौकिष्ट, परितोत्साहवर्मितः॥ १६४॥ वाणाबाणि खगाखङ्गि, कुन्ताकुन्ति तलातलि । भल्लाभल्लि दण्डादण्डि, तयोरित्थमभूद्रणम् ॥ १६५ ॥ असमर्थो विजेतु तं, राजसूर्ध्यातवानिति । छलेनापि रिपुर्जेयो, बलीयानबलीयसा ॥ १६६ ॥ ध्यात्वेति प्रेयसी न्यस्ता, रथाग्रे स्मरजीवनी । तद्रूपेण विमूढोऽसौ, नारीशस्त्रं हि दुर्जयम् ॥१६७॥ इतो मर्मविघातेनासको बाणेन बाधितः । पपात पृथिवीपीठे, मन्मथादिव मूच्छितः॥१६८ ॥ कुसुमायुधबाणेन, भिन्नोऽहं भवतानघ! भिद्यते को न कामेन?जितं येन जगत्रयम्॥ १६९ ॥ वदनिति भटाधीशो, बभूव गतजीवितः । प्रेक्षामास कुमारोऽपि न तुरङ्गरथानपि ॥ १७० ॥ अथैकरथतोऽचालीत् कुमारः पुरसन्मुखम् । विलङ्घन्यनरण्यानी-मेकं व्रजमुदक्षत ॥ १७१ ॥ इतो बजान्नरौ प्राप्तौ, सुन्दरात्मजसनिधी, । क गन्तासि गुणाम्भोधे! सोवादीच्छङ्खपत्तने ॥१७२॥ अथोचतुर्महाभाग ! गच्छावस्त्वत्प्रसादतः । सोप्यूचे भवतादेवं भवन्तौ गच्छतां पुरः ।। १७३ ॥ पञ्चमो मवा भगडदत्तकम For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy