SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पनमो भवः तुष्टस्त्वद्विक्रमाच्छिष्ट! मां विजानीहि तस्करम् । भुजङ्गं नाम लोकानां, भुजङ्गं गमनाक्षमम् ॥१३१॥ भद्र! श्मशानेऽस्मिन्नस्ति, भूमिगेहे वटादधः । मम वीरमतिं जामि, गच्छोद्वह कुलोद्वह! ॥१३२ ॥ गृहाण द्रविणं देहि, दारिद्यस्य जलाञ्जलिम् । उपकारपरैर्भाव्यं, प्राणान्ते हि विवेकिभिः ॥१३३॥ एवं जल्पभसौ राज-सूनुनाऽऽश्वासितो मृतः । तदपितं करात्प्राप्य, करवालमगावटम् ॥ १३४ ॥ गम्भीरेऽथ कृते रावे द्वारमुद्धाट्य चाऽनया । न्यवेश्यताऽऽसने रम्ये, तद्रूपेण व्यमोहत ॥ १३५ ॥ कुतः कार्यादिहाध्यातः, कुतो जानासि मगृहम् ? । इत्युक्तः सौन्दरिःप्रोचे, यथावृत्तं यथातथम् ॥१३६।। तच्छुत्वा रुषिता योषि-द्विधायाऽऽकारगोपनम् । पातालालयमानीत-स्तोषयित्वा सुभाषितैः ॥१३७।। सप्रश्रयमुवाचैषा, तव भार्यास्मि सुन्दर! । इदं धनादि मे भ्रात्रा, त्वदर्थे चिरमर्जितम् ॥ १३८ । नीत्वा वासगृहे सोचे, तावत्तिष्ठ गुणाकर ! । यावद्विलेपनं गत्वा नयामि भवदन्तिके ॥ १३९ ॥ इत्युक्त्वा साऽगमहरं, कुमारो हृद्यचिन्तयत् । अलीकं मूढता माया, मारणं योषितां धनम् ॥ १४०॥ परिभाव्येति तत्रात्म-प्रतिरूपं विमुच्य सः। अन्यत्र संस्थितो जाग्र-नास्ति जागरतां भयम् ॥१४॥ शयनोपरि तन्माना,-शिला न्यस्ताऽथ यत्रतः। सा तया सत्वरं मुक्ता, विश्वासो नास्ति योषितः॥१४२॥ विज्ञाय चूर्णितममुं, हृष्टाऽभाषिष्ट दुष्टधीः । गतोऽसि मामकभ्रातु-र्मार्ग मदनगर्दभः ॥१४३ ॥ श्रुत्वेति कुपितः कृष्ट्वा, स केशैस्तामदोऽवदत् । कः क्षितौ चण्डि ! मां हन्तुं भटः प्रौढपराक्रमः ॥१४॥ १मगडदत्तः। अगडदत्तकथा श्रीमु०५ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy