SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतखामि द्वितीयः सगः चरितम् ॥२२॥ पञ्चमो भवः परन्तु अपया गूढ - मन्मथोऽजनि राजसूः । साऽपि कन्दर्पदात्ता,ऽभवत्पल्लवशायिनी ॥ ५८ ॥ तयाऽथ प्रेषिता दूती, सा गत्वैनमवोचत । खामिन् ! मदनमञ्जर्या, भव जीवितदायकः ॥ ५९॥ हन्यमानां कामबाणै-_लिकामबला बलात् । उपेक्षमाणो गीर्वाण - रूपो निघृणधीरसि ॥ ६॥ श्रुत्वेदं राजसूरूचे, युक्तमुक्तं त्वयाऽनघे ! । केयमुद्वाहिता किं वाऽनूढा प्रौढकुलोद्भवा? ॥ ६१॥ सोचे खामिन् ! वणिक्ख्यातश्रेष्ठिनः श्रेष्ठचेतसः। दुहिता बन्धुदत्तस्य, नाम्ना मदनमञ्जरी॥६२॥ इहैवोद्वाहिता देव ! तव रूपानुरागिणी । भवन्तं वीक्षते विष्व-ग्विष्णुमूर्तिमिवाऽपरम् ॥ ६३ ॥ यद्दिनाद्देव! दृष्टोऽसि, कलावल्लीघनाघन! । तद्दिनादेव रागद्रु-रुद्गतो हदयस्थले ॥ ६४ ॥ अनया सह संयोगं, न कर्तासि भविष्यसि । घातकी सुभटत्वस्य, रमणीवधपातकी ।। ६५ ।। श्रुत्वेति निविडोत्पन्नाऽ-नुरागां श्रेष्ठिनः सुताम् । ज्ञात्वापि देशकालज्ञो, भावज्ञ एवमूचिवान् ॥ ६६ ॥ जानीहि सुन्दरिक्षोणी-पालसुन्दरसम्भवम् । नामतोऽगडदत्ताख्यं कलाभ्यासार्थमागतम् ॥ ६७॥ कलाचार्यसमीपेऽहं, कलाभ्यासं समाप्य च । गमनाहे ग्रहीष्यामि, स्वपुरं यान् सखीं तव ।। ६८॥ कतिचिदिवसानुच्चैः, त्वत्सखी गमयत्वलम् । दुःखकामाभिभूतानां, प्रत्याशा हि बलीयसी॥ ६९॥ तस्यै नेपथ्यवासांसि, दत्वा प्रत्याय्य दृतिकाम् । प्रापयत् तत्समीपेऽथ, तत्सङ्गममचिन्तयत् ॥ ७० ॥ अन्यदा तुरगारूढः, स गच्छन् राजवेश्मनि । उच्चैः कलकलं भीम, शुश्राव श्रवणाऽप्रियम् ।। ७१ ॥ उद्वेलः किमु पाथोधिः?, किं वाग्निलितःपुरे? । किं वा प्राप्तं द्विषत्सैन्यं ? निर्घोषो वाऽशनेः किमु ॥७२॥ FoXXXXXXXXXXX अगडदत्तकथा For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy