SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमो भवः कुमार ! तब वृत्तान्तः, कुमारः पुरवासिनः । प्रजारञ्जनतो राजा, तद्वत्पुत्रोऽपि कीर्तितः ॥ ४४ ॥ यदीदृक् चेष्टसे दुष्टं, मत्पुत्रोऽपि विवेक्यपि। ततः सुधारुचेम्बिात्, कृशानुकणवर्षणम् ।। ४५ ॥ राज्यं त्यज भजारण्य, व्रज व्रज दृशोर्मम । दर्शयसे कथङ्कार - माननं मानमर्दन ॥ ४६॥ श्रुत्वेति भूभुजा प्रोक्तं, सरुषा परुषाक्षरम् । तस्मादगडदत्तोऽपि, निर्ययौ मानिनां गुरुः ॥४७॥ कृतदेशपरित्यागो, रङ्गनगपुरादिषु । पुरीं वाराणसी प्राप, श्रेयसीं तीर्थमालया ॥४८॥ असौ भ्राम्यन्कलाचार्य, पुर्यामार्यप्रियङ्करम् । अधीयानबहुच्छात्रैः, सेवितक्रमपङ्कजम् ।। ४९ ॥ नामतः पवनचण्डं, चण्डं वादिपराजयैः । द्वासप्ततिकलाम्भोधेः, पारावारीणमैक्षत ॥ ५० ॥ ॥ युग्मम् ॥ प्रणन्तरि पुरःस्थेऽस्मिन् , स्वागतप्रश्नपूर्वकम् । कौतःकुतोऽसि किन्नाम, वृत्तं स्वमिति सोऽवदत्॥५१॥ ऋजुस्वभावं तं ज्ञात्वा, यथातथमुवाच सः । कलाचार्ये गुरौ मित्रे, भाव्यं सूनृतवादिभिः ॥ ५२ ।। तत्सत्यवचनात्तुष्टः तुष्टः प्रीतितरङ्गितः । अभाषिष्ट सुतस्त्वं मे, त्वदायत्तं धनादिकम् ।। ५३ ॥ तथेति प्रतिपद्याऽसौ, शिक्षमाणः कलां कलाम् । अक्रीडनगरोद्याने, गीर्वाण इव भूमिगः ॥ ५४॥ समयोद्यानमावासः श्रेष्ठिनस्तुङ्गजालकः । तत्राऽऽसीच्छेष्ठिनः पुत्री, नाम्ना मदनमञ्जरी ॥ ५५ ॥ प्रत्यहं वीक्षमाणा सा, कुमारं मारसुन्दरम् । सानुरागाऽभवत्तत्र, माकन्द इब षट्पदी ।। ५६ ॥ वीक्षमाणः कुमारस्तां, प्रेमोत्कर्षस्पृशा दृशा । सव्यलीकमिवानङ्ग-स्ताडयामास मार्गणैः ॥ ५७ ।। १ उद्यानसमीपम् । २ सापराधमिव । अगडदत्तकथा For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy