SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनि द्वितीया सुव्रतस्वामि सर्गः चरितम् ॥२१॥ पञ्चमो भवः स क्रमाजाततारुण्यः, शरण्यः प्राणिनां न हि । सप्त व्यसनोपहतः, प्रयतः परविग्रहे ॥ २९॥ जग्राहान्यकलत्राणि, विटवच्चेष्टते स्म सः । सह चिक्रीड वेश्याभि-र्भाषते स्म यथा तथा ॥ ३०॥ अशान्तिकक्रियाभिश्च, मारणैः क्षुद्रकर्मभिः । पुरमुच्चाटयामास, दुर्मचैरिख मात्रिकः ॥ ३१ ॥ अन्यदा नागरा नत्वा, काश्यपीशं व्यजिज्ञपत् । देव! दर्शय पानीय-स्थानकं पुरवासिनाम् ॥ ३२॥ श्रुत्वेत्यपृच्छदुर्वीशः, सम्भ्रमोत्तालभालभृत् । भाषन्ते किमिदं पौराः दुःखपूर्णा इवोच्चकैः ॥ ३३ ॥ निःश्वस्य नागराः प्राहुः खामी वेत्ति न किं स्वयम् ? । पुरः स्थमिव राजान-श्वरैः पश्यन्ति दूरतः ॥ ३४ ॥ स्मित्वा स्माऽऽह महाराज, आज्ञा मे पूर्वभूभुजाम् । किम्बदन्त्या बदन्त्यापि, यथाऽहं वेधि किञ्चन ॥ ३५ ॥ अथ ते जगदुः पौराः, कौमारं वृत्तमद्भुतम् । बुडितायां नासिकायां, बुडेन्नाऽऽशाशतं नु किम् ॥३६॥ श्रुत्वा कुमारवृत्तान्तं दुःश्रवं प्रथमागतम् । भूभुजो हृदयस्यान्तः, शोकशङ्करजायत ।। ३७ ।। ध्यातवानिति भूनाथः, किमेतेनाङ्गजन्मना । किं तेन कुण्डलेनापि, येन च्छेदो हि कर्णयोः॥३८॥ पितुर्माङ्गल्यनर्मल्यात, समुद्योतकृतोऽपि च । भवेन्मालिन्यकृत्पुत्रो, दीपादिव मपीलवः ॥ ३९॥ नीचादपि पितुः पुत्रो, जायते मण्डनाग्रणीः। क्षारवारांनिधेीरात, मुक्तामणिरिवोज्वलः ॥ ४०॥ क्षीयते क्षुद्रपुत्रेण, पूर्वजोपार्जितं यशः । वडवादहनेनोचैर्वारि वारिनिधेरिव ॥४१॥ श्रुत्वेति भूपतिर्भाल-भृकुटीभङ्गभीषणः । अनार्य सुतमाकार्य, प्रियाप्रियमवोचत ।। ४२॥ पुत्र ! जातोऽसि नः पुण्यैः, प्रजाः पासीति चिन्तितः । परमीदृक्तवाऽवस्था, मम भाग्यविपर्ययात् ॥४३॥x अगदत्तकथा ॥२१॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy