SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वर्षासु कृतहर्षासु, सौघोत्सङ्गे नरेन्द्रः । मेघरागं सरागाभि रगायत्र्त्तुम्बुरूपमः ॥ १४ ॥ कदाचित्क्रीडावापीषु, शृङ्गीभिर्लोललोचनाः । असिञ्चत्कामतप्ताङ्गीः, स करीव करेणुकाः ॥ १५ ॥ एवं विषयसेवांस, वितन्वानो दिवानिशम् । दिवसान्गमयामास, हर्षोत्कर्षमयानिव ॥ १६ ॥ अन्येद्युर्मत्रविद्वज्र - कुण्डलं रहसि स्थितम् । एवं विज्ञपयामास, मृद्वीकाकाम्यया गिरा ॥ १७ ॥ स्वप्नदृष्टं यथा पुंसः क्षणमात्रं सुखायते । प्रबुद्धस्य न तत्किञ्चिदेवं विषयजं सुखम् ।। १८ ।। शब्दादिविषयासक्ता, विरक्ता धर्मकर्मणः । अजरामरवन्मूढा श्रेष्टन्ते नष्टचेतनाः ॥ १९ ॥ विषयेषु विषीदन्तो, न जानन्ति हिताहितम् । शृण्वन्ति न हितं वाक्य- मेडमूका इवाऽनिशम् ।। २० ।। आदौ हृद्यरसाखादाः पर्यन्ते परितापिनः । विषयाश्चिन्तनादेव, बहुधा च विनाशकाः ।। २१ ।। प्राप्ता अपि नरैः कामा, दुःखं ददति देहिनाम् । क्षणान्नष्टाः क्षणात् दृष्टा, गन्धर्वनगरोपमाः ।। २२ ।। विषयेषु प्रसक्तानां कन्दर्पाज्ञाविधायिनाम् । लोकद्वयविघातिन्यो, जायन्तेऽनर्थवीचयः ॥ २३ ॥ दृष्टान्तोऽगडदत्तस्य शुश्रुवे येन न क्वचित् । सोऽभङ्गं रमणीसङ्ग, कुरुतान्नरकस्पृही ॥ २४ ॥ वज्रकुण्डल ऊचेऽथ, कोऽसावगडदत्तकः ? | मदग्रे चरितं यस्य त्वया हर्षाद्विन्यते ॥ २५ ॥ अथ मन्त्री जगादाशु वज्रकुण्डलसन्मुखम् । एतन्निदर्शनं यस्य, रामावैरङ्गिको जनः ।। २६ ।। तथाहि भरतक्षेत्रे, पुरं शङ्खपुरं वरम् । तत्राऽऽसीत्सुन्दरो नाम, भूपतिः सुन्दराकृतिः ||२७|| सुलसा प्रेयसी तस्या - नलसा शीलकर्मणि । तयोरगडदत्ताख्यो, नन्दनश्चन्दनो दृशाम् || २८ ॥ १ तन्नामागन्धर्वोपमः । २ श्रुतिरहित पुढो बधिरवासी मूकः । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir xox पञ्चमो भवः अगडदशकथा
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy