SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः श्रीमुनिसुव्रतखामि-X सर्गः चरितम् BAR ॥२०॥ द्वितीयः सर्गः । इहाऽपरविदेहेषु, महर्द्धिर्विजयो जयी । गन्धावतीति विख्यातः, पद्भिः खण्डैरखण्डितैः॥१॥ तत्राऽस्ति नगरं रम्यं, नामतो गन्धमादनम् । वज्रनाभाभिधस्तत्र, चक्री शक्र इवौजसा ॥२॥ प्रिया शुभावती तस्य, सर्वान्तःपुरमण्डनम् । साऽन्येधुरैक्षत स्वने, शक्रं दशशतेक्षणम् ॥३॥ पविं पाणौ च बिभ्राणं वामे नामितशात्रवे । अपरस्मिन्करे चञ्चन् -मणिकुण्डलमुज्वलम् ॥ ४॥ [युग्मम् ] उपराज जगामासौ, तं जगाद नृपाङ्गना । सोवादीनिश्चितं भद्रे ! त्वत्पुत्रो भविता हरिः ॥ ५॥ दर्शनं लोकपालानां, लोकपालत्वसूचकम् । स्वसमेतन्मनोहारि, दुःप्रापं सुकृतैरपि ।। ६॥ श्रुत्वेति मुदिता देवी, निजं तल्पं जगाम च । स्मरन्ती देवतापादौ, हृष्यन्ति च क्षणे क्षणे ॥७॥ ततः कुबेरदत्तस्य, जीवस्तुर्यसुरालयात् । च्युत्वा तस्या अवातरीत्, कुक्षौ कक्षीकृताङ्गकः ॥ ८॥ सम्पूर्ण दिवसेऽसूत, दारकं द्युतिहारकम् । वज्रकुण्डल इत्यस्याभिधानं जनको व्यधात् ।। ९॥ पित्रोर्मनोरथशतै-रवर्धिष्ट नृपात्मजः । परिणिन्ये महीशाना, कन्यानां शतपश्चकम् ॥ १० ॥ शृङ्गाररसवापीमि-बनिताभिर्दिवानिशम् । साकं चिक्रीड राज्यस्य, चिन्तां नैव चकार सः ॥ ११ ॥ कदाचिच्चकैमै-रश्चितैः स्मेरपङ्कजैः । रामाभिः सह मैरेयं पिबति स्म सविस्मयः ॥ १२ ॥ कदाचिदुद्यानगतः, पुष्पावचयमादरात् । योपिद्भिः सह कुर्वाणो, वसन्ते खेलति स्म सः ॥ १३ ॥ १ मदिरापानपात्रैः। २ मदिराम् । पञ्चमो मवर ॥२०॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy