SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः श्रीमुनिमुव्रतस्वामि सर्गः चरितम् ॥१९॥ **-6XXXXXXXXXX यस्य कार्ये जनैर्मुढे-रकार्य क्रियतेऽन्वहम् । शरीरं सान्वयं तच्च, वारंवार विशीर्यते ॥ ५१५ ॥ असारेऽस्मिन्शरीरेपि, सारो धर्म इति श्रुतिः। अस्थिरेण शरीरेण, स्थिरो धर्म इति श्रुतिः॥५१६॥ वा क्योपहता येऽपि, न स्युर्धर्मपरायणाः । मूढाः परं भवं ते न, लभन्ते शुभभासुरम् ॥ ५१७॥ यौवनेऽपि विधातव्यो, धर्मस्तीर्थकरोदितः । को जानाति कदा दैव-दण्डः पतति मस्तके? ॥ ५१८ ।। (यतः-तारुण्येऽपि दृढस्थानि येन धर्माय नोद्यतम् । तन्मुण्डे पलितव्याजात, क्षिप्तं भस्मैव वेधसा ॥ ५१९ ॥ श्रुत्वेति विश्वकान्तोऽपि, राज्ये न्यस्य तनूद्भवम् । समभृद्विमलाचार्य-समीपे व्रतवानसौ ॥५२०॥ पपाठाङ्गानि सर्वाणि, द्विधा शिक्षा विशेषयन् । व्यहरद्विश्वं राजर्षिः, प्रज्ञाला सर्वकार्यवित् ।।५२१॥ सूरिणा खपदे न्यस्तो, विश्वकान्तो महामुनिः। महीयांसो हि सर्वान् प्र-कुर्वते चिन्तितानिव ॥५२२॥ कुबेरदत्तभूपालो, ग्रामे ग्रामे पुरे पुरे । सिद्धायतनकान्तानि, जिनचेत्यान्यकारयत् ।। ५२३ ॥ कुबेरदत्तभूपस्य, देवी मदनमञ्जरी । असूत नन्दनं नेत्रा-नन्दनं चन्दनोपमम् ॥ ५२४ ॥ अमरदत्त इत्याख्याम-स्य चक्रे विशाम्पतिः। यतः स्वमेमरो दृष्टो देव्या चञ्चलकुण्डलः ॥ ५२५ ॥ अभूकंवचहारोऽयं परिणीतनृपाङ्गजः । क्रमेण यौवनं प्राप, नेत्रसारङ्गचागुराम् ।। ५२६ ।। अन्येयुर्विहरन्विश्व-कान्तः सूरिमहत्तमः । उद्याने समवासार्षी-जिनधर्म इवाङ्गवान् ।। ५२७ ॥ ज्ञात्वाऽस्याऽऽयममाङ्गल्य - मुद्यानेगाद्विशाम्पतिः । श्रुत्वा च देशनां पूतां, भवे वैरङ्गिकोऽभवत् ।।५२८।। आगत्याऽमरदत्तोऽपि, न्यस्तो राज्ये महीभुजा । जगृहे च व्रतं जैनं, साधुः खार्थपरायणः ।। ५२९ ।। १ सिद्धायतनस्येव मनोहराणि । २ कवचं हरति येन वयसा । तृतीयो भवः For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy