SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो भवः अथ सिंहपुरस्वामी, समेत्य स्वयमेव सः । अभयङ्करभूपालं, सचक्रे प्राभृतैनवैः ॥ ५००॥ कन्यायैः प्राभृतैहृद्यै-नभश्वरमहीचराः । भूभुजोपू पुजन्नेन-ममूलं पुण्यकार्मणम् ।। ५०१ ॥ खपदस्थापितः स्वस्यां, नगऱ्या दधिवाहनः। तैस्तैरुपायनैरेन, सिषेवे भावपेशलम् ॥ ५०२ ॥ अन्यदा तस्य दिव्यांशुभासुरं रविविम्बवत् । चक्रमायुधशालाया-मुत्पेदे सम्पदां पदम् ॥ ५०३॥ तस्य चक्रस्य माहात्म्यात, प्रबलीभूतविक्रमः । वसुधां साधयामास, पट्खण्डामपि हेलया ।। ५०४॥ भुक्तभोगश्चिरं प्राप्य, व्रतं तीर्थङ्करोदितम् । पदं लोकोत्तरं प्रापा-भयङ्करमहामुनिः ।। ५०५ ॥ समस्तसम्पदा मूलं, महोद्यानं यशस्तरोः । परोपकारः कर्तव्यो, हर्तव्यः कलिकल्मषः ॥ ५०६ ।। एवं निशम्य दृष्टान्त-मभयङ्करचक्रिणः । परोपकारपीयूष -वार्द्धः पीयूपरोचिषः ।। ५०७ ॥ चमत्कारकरीमेना, कथां दुष्कृतकर्तिनीम् । श्रुत्वा कुबेरदत्तोऽथ, जगाद वदतां वरः ।। ५०८ ।। एकं तव मुखप्रोक्ताऽपरञ्चक्रभृतः कथा । कामधेनुपयःसिक्त-कल्पद्रोः साम्यमृच्छति ॥ ५०९ ॥ एनसां मे ततिः साधो! रजनीव क्षयं गता । मानसे पद्मवद्वोधः, प्रबोधमधुरोजनि ॥ ५१०॥ इतस्तुरङ्गपादेन, राजसैन्यमुपागमत् । कुमारो मुनिमानम्य, साकं तेन पुरं ययौ ॥ ५११ ॥ प्रवेशितो महोत्साह- पूर्वकं जगतीभुजा । इष्टे प्रणष्टे सम्पाप्ते, हर्षः शतगुणो भवेत् ॥५१२॥ इतश्च विमलाचार्यो, वराऽऽरामे समागमत् । राजा तु वन्दितुमगा-धर्मपूर्णा हि भाविनः ।।५१३॥ उवाच विमलाचार्यो, ज्ञानज्ञाततदाशयः । प्रतिबोधपरा जैनाः, सर्वेष्वपि हि लिङ्गिषु ॥ ५१४ ॥ *OXOXXOXOXXXXXXX कथानकम् श्रीमु०४ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy