SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः सर्गः श्रीमुनिसुव्रतखामिचरितम् ॥१८॥ बलादथ महीपाल - मनले लुलितं तदा । आकृष्य देवतावादी-द्विस्मेरवदनाम्बुजा ।। ४८५॥ तव साहसमालोक्य, वत्स! तुष्टाऽसि सर्वथा । जीवितं लम्भितो भद्र ! तव वाचाऽधमोऽप्ययम् ॥४८६॥ अभिषिच्य सुधापूरैः, कुमारीमपि देवता । स्वयमुज्जीवयाञ्चके, घनाली कन्दलीमिव ॥ ४८७ ॥ अथो जीवितमालोक्य, भूपतिं भूपपुत्रिका । पति सङ्कल्प चक्रे, स्वान्तभ्रान्तमनोभवा ॥ ४८८ ॥ अमुष्य सचरत्नं सम्वीक्षितुं किल कौतुकी । प्रत्यक्षोऽभूजगचक्षुः, क्षुण्णक्षोणीतमस्ततिः॥ ४८९॥ __इतश्चाकाशतूर्याणां, नादैर्जयजयैरिव । व्यानशे रोदसीकूपः, कोऽपि कोलाहलोजनि ॥ ४९०॥ अस्यानुसारतोऽपश्यत्, पृथ्वीशः पृतनां पृथुम् । किमेतदिति सम्भ्रान्तं कोऽप्येत्यैनं व्यजिज्ञपत् ॥४९१॥ देवास्मदीशितुः सैन्यं वैरिकेसरिभूभुजः । अपुत्रे त्रिदिवं प्राप्ते, तत्रेदं खामिवर्जितम् ।। ४९२ ॥ आराध्य विधिना गोत्र-देवतामपराजिताम् । तदादेशेन तदिदं, भवन्तममिगच्छति ॥ ४९३ ॥ वैरिकेशरिसाम्राज्य-श्रियाः प्राणेश्वरो भव । फलेग्रहिर्भव- त्वस्मन्मनोरथमहातरुः ॥ ४९४ ।। वैरिकेशरिराजस्य, प्रजालोकोऽभिधानतः । ऋमिकः सचिवोऽस्म्येष, सार्थी मत्प्रार्थनां कुरु ॥४९५॥ तथा सविधवर्तिन्या, स्वयं देवतया तया । अभिषिक्तो नरेन्द्रत्वे, सुकृतं सहचारि यत् ॥ ४९६ ॥ धारयामास तन्मूर्ध्नि, देवताऽऽतपवारणम् । प्रेरितं भूरिसत्त्वेन, पूर्वप्रीतेरिवागतम् ॥ ४९७॥ कुमार्या मङ्गलखान-पूर्वमुद्वाहमङ्गलम् । विदधे देवता राक्ष-स्तिरोऽभूदथ तत्क्षणम् ॥ ४९८॥ अथ लक्ष्मीपुरं प्राप्य, सलक्ष्मीकः क्षमापतिः । अतर्पयत्प्रजां प्रीत्या, पाथोद इव पाथसा ॥४९९॥ नृतीयो भवः अभयङ्करकथानकम् ॥१८॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy