________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ पृथ्वीपतेर्बाहु - बभूव स्तम्भितस्ततः । तेनान्तस्तापवान्मन्त्र-बन्धेनेव महोरगः ॥ ४७० ॥ असमर्थः खयं छत्त, राजाऽभाषिष्ट योगिनम् । अहो स्वयं स्वहस्तेन, मूर्द्धानं छिन्धि मेऽचिरात् ॥४७१॥ तथाकर्तुं प्रवृत्तेऽस्मि-निर्दयानां शिरोमणौ । स महात्मा महीपीठेड-लोठीदेषोऽपि दैवतः ॥४७२।।
(इतश्च-पार्वणीन्दुमुखाम्भोजा मुक्ताहारेण हारिणा । भूषितोरस्थला देवी, प्रादुरासीत्पुरस्तदा ॥४७३॥ अमृतच्छटया सिक्तं, सा भूपमिदमब्रवीत् । वत्स! त्वत्साहसात्तुष्टां, विद्धि मामपराजिताम् ॥४७४॥ अथ प्रणम्य राज्ञोचे, हस्तस्तम्भस्य कारणम् । निवारय यथा छेत्तु-मलंभूष्णुर्भवाम्यहम् ॥ ४७५ ॥ एवं प्रतिज्ञानिर्वाह - व्रतं मे स्पादखण्डितम् । धनराज्यादिभिः कार्य न मे किश्चन विद्यते ॥ ४७६ ॥ नैतत्कतुं समस्तीच्छा, ततोऽस्मै सिद्धिमादिश । दर्शनं किल देवीनां, साधीयः सिद्धिसाधने ॥४७७।। अथ देवी पुनःप्रोचे, नास्य स्त्रीवधपापिनः । प्राणानपि प्रयच्छामि दूरे सिद्धिरभीप्सिता ॥४७८|| अथाऽऽचचक्षे क्षोणीशः, स्त्रीवधः पापिनाऽमुना । कृतो युष्मदिरा देवि ! परित्यज्य 'विवेचनम् ॥४७९॥ विहस्य न्यगदद्देवी, झूणयिष्यति नो सुत ! । तव सत्त्वपरीक्षायै, समादिष्टं मयाऽस्य तत् ।। ४८०॥ अथोचे देवता वत्स! मुक्त्वार्थममुमुच्चकैः । अन्यद् वृणु महाभाग! धमोघं देवदर्शनम् ॥ ४८१ ॥ अथावादीन्महीनाथः, किं वृथा वचनक्लमः ? । अग्निशौचाम्बरमिव, प्रवेक्ष्यामि हुताशने ।। ४८२ ।। इत्युक्त्वाथ ददौ झम्पा-मभयङ्करभूपतिः। किमशक्यं कदाप्यस्ति बत सत्त्ववतां सताम् ? ॥४८॥ सुता सिंहपुरेशस्य, दृष्ट्वैनं स्फुटसाहसम् । अर्धविच्छिन्नवल्लीव, पपात पृथिवीतले ॥ ४८४ ॥ १ विचारम् ।
तृतीयो मवः अभयकरकथानकम्
OXexeXOXOKEKO.
For Private and Personal Use Only