SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥ १७॥ ***-oXXXXXXXXX एकं रामा परं बाला, भवांश्च विजिगीषुराट् । कर्तुमेतत्कथङ्कार, तव बाहुः प्रसर्पति ? ॥ ४५५ ।। इमां सल्लक्षणां हत्वा, विद्या चेत्तव सिद्ध्यति । तदस्याः स्थानके मां त्वं, कुरु प्रार्थितपूरुषः ॥ ४५६ ॥ इत्युक्तवन्तं भूपालं, योगीन्द्रः माह विस्मितः । चरित्रेण पवित्रेण, पुनासि मम मानसम् ॥४५७॥ चक्रवर्तीव वपुषा, श्रीपुषा व्यज्यसे मया । भवेदन्यस्य कस्येदं, पररक्षा-महाव्रतम् ॥४५८|| अकृत्याऽचरणे वीर ! निदानं शृणु सादरः। अस्ति वैताढ्य इत्यद्रि-स्तत्र विद्याधरोऽस्म्यहम् ॥४५९|| उत्तरश्रेणिपो विद्यामू-र्जितामपराजिताम् । तथाऽजाधयितुं यत्नं, कृतवानस्मि सस्मयः ॥४६०॥ यथा दिनेष्वपूर्णेषु, पुरोभूयो जगाद सा । तुष्टाऽस्मि वत्स! किंतु त्वं, सेवामर्हसि चोत्तराम् ॥४६।। द्वात्रिंशल्लक्षणां रामां, नरं वा पूर्णलक्षणम् । हुत्वा हुताशे याचख, वरं किञ्चन चिन्तितम् ॥४६२॥ अथान्यथा विधातासि, स्फुटिष्यति शिरः स्फुटम् । इत्युक्त्वान्तर्दधे देवी, ततो भ्रान्तो महीमहम् ॥४६३॥ इहाऽऽनयमिमां दृष्ट्वा, सुतां सिंहपुरेशितुः । अस्या प्राणपरित्राणात्, मम विप्नो भवानभूत् ॥४६४।। अथाऽऽख्यत्सस्मितं राजा, दुतमेषा विमुच्यताम् । हुत्वानौ मम मूनिं, भव पूर्णार्थसाधकः ॥४६५॥ अथो विहस्य सोऽप्यूचे, विचारविमुखः खलु । अर्थेदारैरपि प्राणा, रक्ष्यन्ते हि शरीरिणा ॥४६६॥ अथोचे भूपतिः स्मित्वा, गत्वरैरसुभिः सखे ! । चिरस्थायि यशः सद्भि-रजनीयं प्रयत्नतः ॥४६७।। आक्षिप्य पापिनः पाणेः, कृपाणं पृथिवीपतिः। मूर्ध्नि व्यापारयामास, छेत्तुं मुदितमानसः॥ ४६८॥ अथो रोमोद्गमो देहे, प्रससार विशाम्पतेः। विधातुमिव साहाय्यं, वीरो रस इवाङ्गत्वान् ॥ ४६९ ॥ तृतीयो भवः अभयङ्करकथानकम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy