SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथम: सर्गः श्रीमुनिसुबतखामिचरितम् ॥१६॥ (यदूचे-)जगदुस्वामिनः सन्तः, समाः खपरपक्षयोः। नासावंश इबोत्तङ्गो, वामदक्षिणनेत्रयोः॥४२६॥ ममोपरि ममत्वं त्वं बिभ्राणाभयभूपते!। राज्यलक्ष्मी पुनातुं, दानशौण्डीर! चिन्तय ॥ ४२७॥ अथाभयङ्करः स्माह, ह्रिया नतमुखाम्बुजः । गृहाण निखिलं राज्यं, मेऽपराधस्तु मृष्यताम् ॥ ४२८ ॥ देश-कोश-बलैः पूर्ण, राज्यं प्रार्थनया समम् । अलङ्कृत्य सुखीकृत्य, भूयास्त्वं शरदां शतम् ।। ४२९ ॥ उक्त्वेत्यभिषेकयितुं यावदुद्यमवान्नृपः । तावद् बुद्धिसखः प्रोचे, साधिक्षेपं सनिष्ठुरम् ॥ ४३० ॥ अविचार्यकारितेयं, वारम्वारं त्वयि प्रभो! । पूर्वजैरर्जितं राज्यं, त्यज्यते तृणवत्त्वया ॥ ४३१ ॥ पुत्राय ननु पौत्राय, राज्यं देदीयते नपैः। परश्च वाईके प्राप्ते, दुष्प्रापं राज्यमङ्गिनाम् ।। ४३२॥ अपदे राज्यमुत्सृज्य, गच्छन् पादप्रचारतः। कथं निजाननं राजन् !, दर्शयिष्यसि पावनम् ! ॥४३३।। यावल्लक्ष्मी नृपास्तावद - न्यथा बाममात्रतः । पर्यस्ताः शिरसः केशा, ही लुठन्ति महीतले ॥४३४॥ (यत:-) म पुरस्क्रियते वणः, सर्वैर्यः श्रीपुरस्कृतः। शून्याकृतिरपि प्रायो, विसर्गोत्र निदर्शनम् ।। ४३५ ॥ अधिकाभ्युदयाय स्यु -वित्तवन्तः पुरस्कृताः । विन्दुरले कृतोऽङ्कानां, धत्ते दशगुणोन्नतिम् ॥ ४३६ ॥ अलम्भि बकुलेन श्रीः, शब्दोऽन्त्येऽपि यदद्भुतः । अतो गुणाधिवासत्वं हृदये परिसपेति ॥ ४३७॥ तथाह पृथिवीनाथो, लोकोत्तरपराक्रमः । विनश्वर्यः थियो लोला, धृति तासु कुरुष्व मा ॥ ४३८ ॥ (यदृचे-)अहमस्याः पतिः सेयं, ममैवेत्यभिमानिनः। भुवा भोयार्थिनः के वा, वेश्ययेव न वञ्चिताः? ॥४३९।। पंत्रपात्रीव धात्रीयं, भुक्त्वोत्सृष्टा महात्मभिः। विगृह्य गृह्यते लुब्धैः, कुकुरैखि ठकुरैः॥ ४४० ॥ १ पृथिव्या। २ 'पतराली' इति भाषायाम् । तृतीयो भवः अभयङ्करकथानकम् ॥ १६ ॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy