SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra XCXGX XOXOXO www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्वत्खगविद्यालामेन, लब्धराज्यो भवाम्यहम् । तथा कुरु महीनाथ ! मन्मनः पान्थपादप ! ॥ ४१२ ॥ एवं विज्ञापितो भूमान - ङ्गीकृत्य तथैव तत् । वेत्रिणा वासयामास तं निवासनिवेशनम् ॥ ४१३ ॥ अथाख्यत्सुमतिमंत्री, पात्रशुद्धिं विचारय । खड्गसिद्धिं न दातुं ते, युज्यतेऽस्मै यथा तथा ॥ ४१४ ॥ चतुरैस्तुरगैर्मत्तै- वरिणैश्च रथैर्वरैः । पादातिभिश्व कोशैव, कृतार्थीकुरु पार्थिवम् ॥ ४१५ ॥ भूयो भूपोऽभ्यधत्तैवं, त्वद्वचो युक्तिमङ्गति । किन्तु ज्ञातस्य कर्त्तव्या, परोपकृतिरुत्तरा ।। ४१६ ।। (यदूचे-)जायन्ते जन्तवः कुक्षि-म्भरयो भूयो न किम् ? । परार्थाः सिद्धयो यस्य स जातः स च जीवति ॥ ४१७॥ इति सम्बोध्य मत्रीशं, सुमुहूर्ते शुभे दिने । खड्गसिद्धिमदात्तस्मै, किमदेयं महात्मनाम् ? || ४१८ ॥ सत्यीभूतो नृसिंहोऽथ, सिद्धविद्यः समुद्यतः । तगरानगरीनाथम - जैपीत्संङ्गराजिरे । ४१९ ॥ क्षीणशक्तित्रयः सोऽभूनृसींहादिव दानवः । भाग्यायत्तानि शर्माणि, भाग्यायत्ता हि सिद्धयः ४२० भ्रष्टाहङ्कृतिराज्योsहं, दुःस्थावस्थः करोमि किम् ? । अभयङ्करभूमीशम थवानुसरामि किम् ? ॥४२१ ॥ इति निश्चिय चित्तान्त - स्तदा पुष्पपुरेश्वरः । व्यजिज्ञपत् नृपं प्राप्य, नगरीं पुण्डरीकिणीम् ||४२२ || अभयङ्करभूपाल ! सत्यार्थो भव मेऽचिरात् । अथवा नाममात्रं स्यादिन्द्रगोपककीटवत् ।। ४२३ ॥ अस्म्यहं तगराधीशो, भूपतिर्दधिवाहनः । त्वत्प्रसादानृसिंहेण, हृतराज्यः समन्ततः ॥ ४२४ ॥ तन्मे राज्यं त्वया छिन्नं, मे त्वमेव प्रदास्यसि । पयः शोषयते सूर्यः, सूर्य एव हि वर्षति || ४२५|| १ समराङ्गणे । For Private and Personal Use Only (EXXXXXXXXXXX तृतीयो भवः अभयङ्करकथानकम्
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy