SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि प्रथमः सर्गः चरितम् ॥१४॥ चतुर्दशमहास्वम-सूचितं नृपतिप्रिया । असूत सुतरनं सा विभवं राजनीतिवत् ॥ ३६९ ॥ अभयङ्कर इत्यस्य, नाम पित्रा विनिर्मितम् । क्रमाच यौवनं प्राप, मीनकेतुमहावनम् ॥ ३७० ॥ सुमना एप निद्रान्ते, भीमकाननमध्यगम् । चरिमे यामिनीयामे- ऽपश्यदात्मानमन्यदा ।। ३७१ ॥ न तत्पुरं वरं तन्न, गृहं शय्यागृहं श्रियः । स नावासो दृशां पाशः, सर्व नवमिवाभवत् ॥ ३७२ ॥ इतश्च विस्मिते तस्मिन् , दिव्यः कोऽपि नरः पुरः । भूत्वोचे विस्मितं मा गा, ज्ञातास्यपहृति स्वयम् ॥३७३॥ निशम्येति कुमारोऽपि, यावत् किञ्चन भाषते । तावदन्तर्दधे सोऽपि कोऽपि क्षणदया सह ॥ ३७४ ॥ अथोत्थाय कुमारोऽपि वीक्षमाणो महावनम् । इतस्ततश्च बभ्राम, प्रदोषे चक्रवाकवत् ।। ३७५ ॥ मध्येवनं सरः स्मेर-कनकाम्भोजभासुरम् । स वान्धवमिवाम्भोधे-द्धाक्षीत् क्षितिशक्रमः ॥ ३७६ ।। अथास्य सरसो नीर -रुचितां शुचितां तनौ। विधाय विपिनाम्य-निर्भीको नगरे यथा ॥ ३७७ ।। अथाग्रे मठमद्राक्षीत् खर्गखण्डमिव श्रिया । आरुरोह कुमारस्तम्, प्रमोदप्रेरिताशयः ॥ ३७८ ॥ क्रमादुपरि भूभागे, दिव्यरूपधरं नरम् । दर्शनीयं ददर्शाशु योगपट्टविभूषितम् ।। ३७९ ॥ निवारितं मरुन्मार्गम् , नश्यन्तं परमं पदम् । नासाग्रन्यस्तशस्ताक्ष-मक्षसूत्रपवित्रितम् ॥ ३८० ॥ [युग्मम् ] प्रणिपत्योपविष्टेऽस्मिन् , समाधिमत्रमुच्य सः । ऊचे वाचा मधुमुचा, कर्णयोरमृताभया ॥ ३८१ ॥ १ निशया। तृतीयो भवः अभयङ्करकथानकम् ॥१४॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy