SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५९ ॥ मित्रमस्मि महाभाग ! शिवकेतुसुरस्य ते । देववित्तापहारोऽहं बोधितो मुनिसङ्गमात् ।। ३५६ ।। ततश्युत्वा विदेहेषु, राजपुत्रः कुमारिलः । अभूवं क्रमशः प्रापं, दीक्षां सर्वज्ञभाषिताम् ॥ ३५७ ।। तु मे ज्ञानमुत्पेदे, मनःपर्यायसञ्ज्ञकम् । येन गर्भजजीवानां, जाने चेतांसि सर्वतः ॥ ३५८ ॥ तत्प्रभावागमो मेऽत्र, ज्ञात्वा त्वां तुरगाहृतम् । भाविनं भरतक्षेत्रे, तीर्थेशं सुव्रताभिधम् ॥ कुबेरदत्त ऊचेऽथ, यदि मे बोधिदायकः । तदाऽऽदिश जिनोपज्ञ, धम्मं मोक्षाध्वदर्शकम् ॥ ३६० ॥ ततः सम्यक्त्वपूर्वाणि, व्रतानि द्वादशावदत् । स सम्यगग्रहीद् भक्त्या, भावः पात्रेषु वर्द्धते ।। ३६१ ॥ प्रभो! परार्थप्रगुणा, ये भवन्ति भवादृशाः । तेषां कथानकं ब्रूत, सतां पापहरा कथा || ३६२ ।। अथ तत्वपयोधीन्दु-र्मुनिर्मानविमर्द्दनः । ऊये भूमिपतेः पुत्र ! त्वं युक्तं पृष्टवानसि ॥ ३६३ ।। ( यतः - ) छायाया न कथा वृथा च कुसुमस्तोमः कथा नोन्नतेः, शाखाश्रीर्न च तादृशी फलभरभ्राजिष्णुता दूरतः ॥ निर्गुण्डीति विवेश विघ्नविहतौ वैश्वानरं सादरम् कर्तव्यो ह्युपकार एव जगतां दग्ध्वापि देहं निजम् ||३६४|| निष्पेषोऽस्थिचयस्य दुःसहतरः प्राप्तस्तुलारोहणम्, ग्राम्यस्त्रीनखलुश्चनव्यतिकरस्तत्रीप्रहारव्यथा ॥ मातङ्गोक्षितमण्डवारिकणिकापानं च कूर्चाहतिः, कार्पासेन परार्थसाधनविधौ किं किं च नाङ्गीकृतम् ? || ३६५॥ परार्थप्राणने येषां मतिः स्फुरति मानसे । ते श्रियो भाजनं भव्या, अभयङ्करचक्रिवत् ।। ३६६ ।। (तथाहि -) विदेहेष्वपरेष्वस्ति, विजया पुष्कलावती । सम्पदामास्पदं तत्र, नगरी पुण्डरीकिणी ॥ ३६७॥ तत्र क्षेमङ्करः क्षेमङ्करः प्रणयिनां नृपः । महिष्यमरसेनेति, जज्ञे तस्य पतिव्रता ।। ३६८ ॥ For Private and Personal Use Only *•*•*•*•*•*• तृतीयो मवः अभयङ्करकथानकम्
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy